मन्त्रवीर्य परामृतरसा स्वादात्सुखदायिनी ।
भावव्रात समुद्रगर्भलहरी शब्दार्थतत्त्वव्यापिनी
सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी ॥ १॥
श्रीचक्रान्तरवह्णिकोण निलयाया बिन्दुमात्रात्मिका ।
सूक्ष्मात्सूक्ष्मतरा परामृतमयी नित्यं जगत्तर्पिनी
सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी ॥ २॥
भक्तानां भवभीति भञ्जनकरी हृत्पङ्कजे संस्थिता ।
बाह्याभ्यन्तरचारिणी सुरसतो हंसेनया सेविता
सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी ॥ ३॥
स्वात्मामर्शन तत्परैश्च सततं भक्तैः खलु प्राप्यते ।
मूलाद् ब्रह्मबिलावधितडिदिवया ब्रह्मनाडी स्मृता
सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी ॥ ४॥
वेदान्तागमतन्त्र सार महिमाषड्दर्शनोल्लङ्घिनी ।
सर्वाचार विचार पालन परायानिर्गता चारका
सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी ॥ ५॥
तत्प्राणान्त विचार्यभक्त निबहैः ह्रीतमिव शष्पवत् ।
ऐन्द्रं-धाम विहाय क्षीणकलुषैर्मोक्षाय या स्वीकृता
सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी ॥ ६॥
ॐइत्येतद्विमर्शनेन सततं सर्वमिदं स्वात्मनि ।
रक्तेस्तत्पद प्रेप्सुभिञ्च मुनिभिःस्वस्थै सदास्वीकृतं
सा मां पातु सरस्वती भगवती श्रीराजराजेश्वेरी ॥ ७॥
ध्यानावस्थित तद् गतेन मनसा प्राप्तं महत् निर्मलम ।
मोक्षं भोगं ददाति या प्रभुदिता विद्याधरैर्वन्दिता
सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी ॥ ८॥
