Goddess Lalita

श्रीत्रिपुरसुन्दरीवेदसारस्तवः

(Sri Tripurasundari Veda Sara Stava)

Also known as shri tripurasundari veda sara stava · shree tripurasundari veda sara stava · tripurasundari veda sara stava

Seventeen verses, sixteen of them opening on the sixteen syllables of the Shodashi mantra in order and a short one added at the close. What sets it apart from the other five stavas built the same way is that each verse ends in a boon of its own rather than in a shared refrain. The first, on Brahma's consort playing her lute, asks for eloquence of the sattvic kind; the second, on the swan-formed goddess seen by yogins in the middle of the mind, asks for lasting gladness; the eighth, which tells how she revived Kamadeva by a glance when his wife begged for him in tears, asks for the quieting of disease. The Veda in the title is earned by the second verse, which calls her the form of nada, of sound itself.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ त्रिपुरसुन्दरीवेदसारस्तवः ॥
श्रीगणेशाय नमः ।
कस्तूरीपङ्कभास्वद्गलचलदमलस्थूलमुक्तावलीका
ज्योत्स्नाशुद्धावदाता शशिशिशुमुकुटालङ्कृता ब्रह्मपत्नी ।
साहित्याम्भोजभृङ्गी कविकुलविनुता सात्त्विकीं वाग्विभूतिं
देयान्मे शुभवस्त्रा करचलवलया वल्लकीं वादयन्ती ॥ १॥
एकान्ते योगिवृन्दैः प्रशमितकरणैः क्षुत्पिपासाविमुक्तैः
सानन्दं ध्यानयोगाद्विसगुणसद्दशी दृश्यते चित्तमध्ये ।
या देवी हंसरूपा भवभयहरणं साधकानां विधत्ते
सा नित्यं नादरूपा त्रिभुवनजननी मोदमाविष्करोतु ॥ २॥
ईक्षित्री सृष्टिकाले त्रिभुवनमथ या तत्क्षणेऽनुप्रविश्य
स्थेमानं प्रापयन्ती निजगुणविभवैः सर्वथा व्याप्य विश्वम् ।
संहर्त्री सर्वभासां विलयनसमये स्वात्मनि स्वप्रकाशा
सा देवी कर्मबन्धं मम भवकरणं नाश्यत्वादिशक्तिः ॥ ३॥
लक्ष्या या चक्रराजे नवपुरलसिते योगिनीवृन्दगुप्ते
सौवर्णे शैलश‍ृङ्गे सुरगणरचिते तत्त्वसोपानयुक्ते ।
मन्त्रिण्या मेचकाङ्ग्या कुचभरनतया कोलमुख्या च सार्धं
साम्राज्ञी सा मदीया मदगजगमना दीर्घमायुस्तनोतु ॥ ४॥
ह्रीङ्काराम्भोजभृङ्गी हयमुखविनुता हानिवृद्ध्यादिहीना
हंसोऽहंमन्त्रराज्ञी हरिहयवरदा हादिमन्त्रार्थरूपा ।
हस्ते चिन्मुद्रिकाढ्या हतबहुदनुजा हस्तिकृत्तिप्रिया मे
हार्दं शोकातिरेकं शमयतु ललिताघीश्वरी पाशहस्ता ॥ ५॥
हस्ते पङ्केरुहाभे सरससरसिजं बिभ्रती लोकमाता
क्षीरोदन्वत्सुकन्या करिवरविनुता नित्यपुष्टाक्ष गेहा ।
पद्माक्षी हेमवर्णा मुररिपुदयिता शेवधिः सम्पदां या
सा मे दारिद्र्यदोषं दमयतु करुणादृष्टिपातैरजस्रम् ॥ ६॥
सच्चिद्ब्रह्मस्वरूपां सकलगुणयुतां निर्गुणां निर्विकारां
रागद्वेषादिहन्त्रीं रविशशिनयनां राज्यदानप्रवीणाम् ।
चत्वारिंशत्त्रिकोणे चतुरधिकसमे चक्रराजे लसन्तीं
कामाक्षीं कामितानां वितरणचतुरां चेतसा भावयामि ॥ ७॥
कन्दर्पे शान्तदर्पे त्रिनयननयनज्योतिषा देववृन्दैः
साशङ्कं साश्रुपातं सविनयकरुणं याचिता कामपत्न्या ।
या देवी दृष्टिपातैः पुनरपि मदनं जीवयामास सद्यः
सा नित्यं रोगशान्त्यै प्रभवतु ललिताधीश्वरी चित्प्रकाशा ॥ ८॥
हव्यैः कव्यैश्च सर्वैः श्रुतिचयविहितैः कर्मभिः कर्मशीला
ध्यानाद्यैरष्टभिश्च प्रशमितकलुषा योगिनः पर्णभक्षाः ।
यामेवानेकरूपां प्रतिदिनमवनौ संश्रयन्ते विधिज्ञाः
सा मे मोहान्धकारं बहुभवजनितं नाशयत्वादिमाता ॥ ९॥
लक्ष्या मूलत्रिकोणे गुरुवरकरुणालेशतः कामपीठे
यस्याः विश्वं समस्तं बहुतरविततं जायते कुण्डलिन्याः ।
यस्याः शक्तिप्ररोहादविरलममृतं विन्दते योगिवृन्दं
तां वन्दे नादरूपां प्रणवपदमयीं प्राणिनां प्राणदात्रीम् ॥ १०॥
ह्रीङ्काराम्भोधिलक्ष्मीं हिमगिरितनयामीश्वरीमीश्वराणां
ह्रीं‍मन्त्राराध्यदेवीं श्रुतिशतशिखरैर्मृग्यमाणां मृगाक्षीम् ।
ह्रीं‍मन्त्रान्तैस्त्रिकूटैः स्थिरतरमतिभिर्धार्यमाणां ज्वलन्तीं
ह्रीं ह्रीं ह्रीमित्यजस्रं हृदयसरसिजे भावयेऽहं भवानीम् ॥ ११॥
सर्वेषां ध्यानमात्रात्सवितुरुदरगा चोदयन्ती मनीषां
सावित्री तत्पदार्था शशियुतमकुटा पञ्चशीर्षा त्रिनेत्रा
हस्ताग्रैः शङ्खचक्राद्यखिलजनपरित्राणदक्षायुधानां
बिभ्राणा वृन्दमम्बा विशदयतु मतिं मामकीनां महेशी ॥ १२॥
कर्त्री लोकस्य लीलाविलसितविधिना कारयित्री क्रियाणां
भर्त्री स्वानुप्रवेशाद्वियदनिलमुखैः पञ्चभूतैः स्वसृष्टैः ।
हर्त्री स्वेनैव धाम्ना पुनरपि विलये कालरूपं दधाना
हन्यादामूलमस्मत्कलुषभरमुमा भुक्तिमुक्तिप्रदात्री ॥ १३॥
लक्ष्या या पुण्यजालैर्गुरुवरचरणाम्भोजसेवाविशेषाद्-
दृश्या स्वान्ते सुधीभिर्दरदलितमहापद्मकोशेन तुल्ये ।
लक्षं जस्वापि यस्या मनुवरमणिमासिद्धिमन्तो महान्तः
सा नित्यं मामकीने हृदयसरसिजे वासमङ्गीकरोतु ॥ १४॥
ह्रीं‍श्रीर्मैं‍मन्त्ररूपा हरिहरविनुताऽगस्त्यपत्नीप्रदिष्टा
हादिः काद्यर्णतत्त्वा सुरपतिवरदा कामराजप्रदिष्टा ।
दुष्टानां दानवानां मदभरहरणा दुःखहन्त्री बुधानां
साम्राज्ञी चक्रराज्ञी प्रदिशतु कुशलं मह्यमोङ्काररूपा ॥ १५॥
श्रीं‍मन्त्रार्थस्वरूपा श्रितजनदुरितध्वान्तहन्त्री शरण्या
श्रौतस्मार्तक्रियाणामविकलफलदा भालनेत्रस्य दाराः ।
श्रीचक्रान्तर्निषण्णा गुहवरजननी दुष्टहन्त्री वरेण्या
श्रीमत्सिंहासनेशी प्रदिशतु विपुलां कीर्तिमानन्दरूपा ॥ १६॥
श्रीचक्रवरसाम्राज्ञी श्रीमत्त्रिपुरसुन्दरी ।
श्रीगुहान्वयसौवर्णदीपिका दिशतु श्रियम् ॥ १७॥
॥ इति श्रीमत्त्रिपुरसुन्दरीवेदसारस्तवः सम्पूर्णः ॥

Explore More