Goddess Shodashi

श्री तुरीया षोडशी त्रैलोक्य विजय कवचम्

(Sri Turiya Shodashi Trailokya Vijaya Kavacham)

Also known as shri turiya shodashi trailokya vijaya kavacham · shree turiya shodashi trailokya vijaya kavacham · turiya shodashi trailokya vijaya kavacham

An armour for the sixteen-syllabled vidya, framed as a conversation on the peak of Kailasa in which Skanda asks his father for it — addressing him as one who increases his affection for his son, which is an unusually domestic way to open a tantric text. Ishvara's answer begins by piling up the word for secret: more secret than the secret, more hidden than the hidden, and great. The record salutes Mahatripurasundari before anything else, so Shodashi and she are taken as one goddess here, as they are in the sahasranamavali beside it in this cluster. It is one of several armours in this corpus called Trailokyavijaya — the others belong to Bhairavi, Chinnamasta, Bala and Kali — and the name marks a family of texts rather than a single one.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

#of 79
॥ श्रीमहात्रिपुरसुन्दर्यै नमः ॥
॥ पूर्वपीठिका ॥
कैलासशिखरे रम्ये देवदेवं जगद्गुरुम् ।
शङ्करं परिपप्रच्छ कुमारः शिखिवाहनः ॥ १॥
॥ श्रीस्कन्द उवाच॥
जनक श्रीगुरो देव पुत्रवात्सल्यवर्धन! ।
कवचं षोडशाक्षर्या वद मे परमेश्वर!॥ २॥
॥ श्रीईश्वर उवच ॥
श‍ृणु पुत्र महाभाग! कवचं मन्त्रविग्रहम् ।
गोप्याद्गोप्यतरं गोप्यं गुह्याद्गुह्यतरं महत् ॥ ३॥
तव स्नेहात् प्रवक्ष्यामि नाख्यातं यस्य कस्यचित् ।
ब्रह्मेशविष्णुशक्रेभ्यो मया न कथितं पुरा ॥ ४॥
देवाग्रे नैव दैत्याग्रे न शौनकगुणाग्रके ।
तव भक्त्या तु कवचं गोप्यं कर्तुं न शक्यते ॥ ५॥
एकादशमहाविद्या सवर्णा सद्गुणान्विता ।
सर्वशक्तिप्रधाना हि कवचं मन्मुखोदितम् ॥ ६॥
गणेशश्च रविर्विष्णुः शिवशक्तिश्च भैरवः ।
पञ्चतत्त्वादिसर्वेषां वर्मावर्तेन तुष्यताम् ॥ ७॥
ऊर्ध्वाम्नायं महामन्त्रं कवचं निर्मितं मया ।
त्रैलोक्यविजयं दिव्यं तुरीयं कवचं शुभम् ॥ ८॥
॥ श्रीस्कन्द उवाच॥
कवचं परमं देव्याः श्रोतुमिच्छाम्यऽहं प्रभो ।
यत्सूचितं त्वया पूर्व धर्मकामार्थमोक्षदम् ॥ ९॥
तद्विनाऽऽराधनं नास्ति जपं ध्यानादि कर्मणि ।
तस्याश्च कवचं यस्मात् तस्मात् तद्वद मे प्रभो ॥ १०॥
॥ श्रीईश्वर उवाच॥
श‍ृणु पुत्र महाप्राज्ञ ! रहस्यातिरहस्यकम् ।
तुरीयं कवचं दिव्यं सर्वमन्त्रमयं शुभम् ॥ ११॥
पूजान्ते तु जपात्पूर्वं कवचं समुदीरयेत् ।
॥ विनियोगः ॥
अस्य श्रीकवचस्यास्य ऋषिरानन्दभैरवः ॥ १२॥
श्रीविद्या देवताश्छन्दो गायत्रीरुचिवृत्तिकम् ।
रमाबीजं पराशक्तिः वाग्भवं कीलकं स्मृतम् ॥ १३॥
मम सर्वार्थसिद्धयर्थे जपे तु विनियोगतः ।
॥ करन्यासः ॥
अङ्गुष्ठाग्रे वाग्भवं च हृल्लेखां तर्जनी न्यसेत् ॥ १४॥
लक्ष्मीबीजं मध्यमायामङ्गिराऽनामिका तथा ।
पराबीजं कनिष्ठायां लक्ष्मीं करतले न्यसेत् ॥ १५॥
॥ षडङ्गन्यासः ॥
हृदये वाग्भवं न्यस्यात् परां शिरसि च न्यसेत् ।
लक्ष्मीबीजं शिखायां च कवचे वाग्भवं न्यसेत् ॥ १६॥
हृल्लेखां नेत्रयोर्न्यस्यादस्त्रं तु कमलां न्यसेत् ।
॥ दिग्बन्धनम् ॥
भूर्भुवः स्वरिति मनुना दिग्बन्धनमाचरेत् ॥ १७॥
ध्यानं तस्य प्रवक्ष्यामि धर्मकामार्थमोक्षदम् ।
न्यासध्यानादिकं सर्वं कृत्वा तु कवचं पठेत् ॥ १८॥
॥ ध्यानम् ॥
क्षीरसागरमध्यस्थे रत्नद्वीपे मनोहरे ।
रत्नसिंहासने दिव्ये तत्र देवीं विचिन्तयेत् ॥ १९॥
कोटिसूर्यप्रतीकाशां चन्द्रकोटिनिभाननाम् ।
दाडिमीपुष्पसङ्काशां कुङ्कुमोदरसन्निभाम् ॥ २०॥
जपाकुसुमसङ्काशां त्रिनेत्रां च चतुर्भुजाम् ।
पाशाङ्कुशधरां रम्यामिक्षुचापशरान्विताम् ॥ २१॥
कर्पूरशकलोन्मिश्रताम्बूलपूरिताननाम् ।
सर्वश‍ृङ्गार वेषाढ्यां सर्वावयवशोभिनीम् ॥ २२॥
सर्वायुधसमायुक्तां प्रसन्नवदने क्षणाम् ।
सपरिवारसावरणां सर्वोपचारार्चिताम् ॥ २३॥
एवं ध्यायेत् ततो वीर ! कवचं सर्वकामदम् ।
आवर्तयेत् स्वदेहे तु सर्वरक्षाकरं शुभम् ॥ २४॥
॥ अथ कवचपाठः ॥
शिखायां मे "ह्सौः" "पातु" "स्हौ" मे पातु ब्रह्मरन्ध्रके ।
सर्वदा "ह्लौं" च मां पातु वामदक्षिणभागयोः ॥ १॥
"ऐं ह्रीं श्रीं" सर्वदा पातु षोडशी सुन्दरी परा ।
"श्रीं ह्रीं क्लीं" सर्वदा पातु "ऐं सौं ॐ" पातु मे सदा ॥ २॥
"ह्रीं श्रीं ऐं" पातु सर्वत्र "क्नौं रं लं ह्रीं" सदा मम ।
"क्लीं हसकहलह्रीं" मे पातु सदा "सौः क्लीं" मम ॥ ३॥
"सौः ऐं क्लीं ह्रीं" श्रिया पातु सबीजा षोडशाक्षरी ।
आपादमस्तकं पातु महात्रिपुरसुन्दरी ॥ ४॥
श्रीजयन्ती मस्तके मां पातु नित्यं विभूतये ।
"ह्रीं" मङ्गला सदा नेत्रे पातु सर्वार्थसिद्धये ॥ ५॥
"क्लीं" कालिका कर्णयुग्मं पातु सर्वशुभावहा ।
"ऐं" भारती घ्राणयुग्मं पातु सर्वजयाप्तये ॥ ६॥
"सौः" कराली मुखं पातु सर्वलोकवशाप्तये ।
"ऐं" शारदा सदा वाचं पातु साहित्यसिद्धये ॥ ७॥
"ॐ" कपालिनी मे कर्णौ पातु सद्गानसिद्धये ।
"ह्रीं" दुर्गा सहिता पातु स्कन्धदेशौ सदा मम ॥ ८॥
"श्रीं" क्षमसहिता पातु हृदयं मम सर्वदा ।
"ककार"सहिता धात्री पार्श्वयुग्मं सदाऽवतु ॥ ९॥
"एकार"सहिता स्वाहा पातु मे जठरं सदा ।
"ईकार"सहिता नाभिं स्वधा मां सर्वदाऽवतु ॥ १०॥
"लकार"सहिता ब्राह्मी पृष्ठदेशं सदाऽवतु ।
"ह्रीङ्कार"सहमाहेशी कटिं पातु सदा मम ॥ ११॥
"हकार"सहिता गुह्यं कौमारी पातु सर्वदा ।
"सकार"सहिता पातु वैष्णवी गुददेशकम् ॥ १२॥
"ककार"युक्तावाराही ह्यूरुयुग्मं सदाऽवतु ।
"हकार"सहिता जानुयुग्मं माहेन्द्री मेऽवतु ॥ १३॥
"लकार"युक्ता चामुण्डा जङ्घायुग्मं सदाऽवतु ।
"ह्रीङ्कार"सहिता गुल्फयुग्मं लक्ष्मीः सदाऽवतु ॥ १४॥
"सकार"युक्ता मे पादयुग्मेऽव्यात् शिवदूतिका ।
"ककार"सहिता प्राच्यां चण्डा रक्षतु सर्वदा ॥ १५॥
"लकार"सहिताऽऽग्नेयां प्रचण्डा सर्वदाऽवतु ।
"ह्रीङ्कार"सहिता पातु दक्षिणे चण्डनायिका ॥ १६॥
"सौःकार"सहिता चण्डवेगिनी नैरृतेऽवतु ।
"ऐङ्कार"संयुता चण्डप्रकाशा पातु पश्चिमे ॥ १७॥
"क्लीङ्कार"सहिता पातु चण्डिका वायुगोचरे ।
"ह्रीङ्कार"सहिता पातु चामुण्डा चोत्तरे मम ॥ १८॥
"श्रीङ्कार"सहिता रौद्री पायादैशान्यके मम ।
"ऊर्ध्वं" ब्रह्माणी मे रक्षेत् षोडशीसह सर्वदा ॥ १९॥
अधस्ताद्वैष्णवी रक्षेत् पुनः षोडशीसंयुता ।
सर्वाङ्गं सर्वदा पातु सहिता भुवनेश्वरी ॥ २०॥
जले दावानलेऽरण्ये महोत्पाते च सागरे ।
दिवारात्रौ च मे रक्षेद् देवी तारत्रयी मम ॥ २१॥
॥ फलश्रुति ॥
इदं तुरीयासहितं षोडशाक्षरिकात्मकम् ।
अभेद्यं कवचं त्वेदं मन्त्रबीजसमन्वितम् ॥ १॥
योगिनीचक्रसहितं तव प्रीत्या प्रकाशितम् ।
धारयस्व मया दत्तं गोपनीयं सुपुत्रक ॥ २॥
न पुत्राय न शिष्याय बन्धुभ्यो न प्रकाशयेत् ।
इदं त्रिपुरसुन्दर्यास्तुरीयं कवचं शुभम् ॥ ३॥
गोपनीयं प्रयत्नेन मन्त्रवर्णक्रमोदितम् ।
प्रातरारभ्य सायान्तं कर्मवेदान्तमोक्तिकम् ॥ ४॥
तत्फलं समवाप्नोति तुरीयकवचव्रतम् ।
दशधा मातृकान्यासं लघुषोढा ततः परम् ॥ ५॥
शक्तिन्यासं महाषोढां कृत्वा बाह्यान्तरं न्यसेत् ।
श्रीविद्यायां महान्यासं क्रमात् सावर्णतां व्रजेत् ॥ ६॥
पूजान्ते यत्फलं प्राप्तं तत्फलं कवचव्रते ।
सवत्सां दुग्धसहितां साधकः कामधेनुवत् ॥ ७॥
त्रैलोक्यविजयायेदं कवचं परमाद्भुतम् ।
यथा चिन्तामणौ पुत्र ! मनसा परिकल्पिते ॥ ८॥
तत्सर्वं लभते शीघ्रं मम वाक्यान्न संशयः ।
सायुरारोग्यमैश्वर्यं सदा सम्पत्प्रवर्धनम् ॥ ९॥
कवचस्य प्रभावेण त्रैलोक्यविजयी भवेत् ।
अदीक्षिताय न देयं श्रद्धाविरहितात्मने ॥ १०॥
नाख्येयं यस्य कस्यापि कृतघ्नायाततायिने ।
शान्ताय गुरुभक्ताय देयं शुद्धाय साधने ॥ ११॥
अज्ञात्वा कवचं चेदं यो जपेत् परदेवताम् ।
सिद्धिर्न जायते वत्स ! कल्पकोटिशतैरपि ॥ १२॥
स एव च गुरु साक्षात् कवचं यस्तु पुत्रक ।
त्रिसन्ध्यं च पठेन्नित्यमिदं कवचमुत्तमम् ॥ १३॥
निशार्धे जपकाले वा प्रत्यहं यन्त्रमग्रतः ।
जगद्वश्यं भवेच्छीघ्रं नात्र कार्या विचारणा ॥ १४॥
सप्तकोटिमहामन्त्राः सवर्णाः सगुणान्विताः ।
सर्वे प्रसन्नतां यान्ति सत्यं सत्यं न संशयः ॥ १५॥
इति ते कथितं दिव्यं सगुणे भजनक्रमम् ।
निर्गुणं परमं वक्ष्ये तुरीयं कवचं श‍ृणु ॥ १६॥
कवचस्यास्य माहात्म्यं वर्णितुं नैव शक्यते ।
मूलादिब्रह्मरन्ध्रान्तं श्रीचक्रं समुदीरयेत् ॥ १७॥
देहमध्ये च सर्वस्वं श्रीचक्रं चिन्तयेत् सुत ।
पञ्चविंशतितत्त्वं च अतलं वितलं तथा ॥ १८॥
सुतलं च तलातलं महातलं च पञ्चमम् ।
रसातलं षष्ठं वक्ष्ये सप्तमं पाताललोकम् ॥ १९॥
भूर्भुवः स्वर्लोकमतो महल्लोकजनस्तथा ।
तपश्च सत्यलोकश्च भुवनानि चतुर्दश ॥ २०॥
सर्वं श्रीभुवनं चैव निराकारं विचिन्तयेत् ।
मानसे पूजयेत् ध्यायेज्ज्योतिरूपं सुचिन्मयम् ।
कवचं प्रजपेद् वत्स ! राजराजेश्वरो भवेत् ॥ २१॥
इति परमरहस्यं सर्वमन्त्रार्थसारं
भजति परमभक्त्या निश्चलं निर्मलत्वम् ।
विलसित भुवि मध्ये पुत्रपौत्राभिवृध्दिं
धनसकलसमृध्दिं भोगमोक्षप्रदं च ॥ २२॥
॥ इति श्रीचूडामणौ श्रीशिवस्कन्दसंवादे त्रैलोक्यविजयं नाम श्रीतुरीयाषोडशी श्रीराजराजेश्वरी महात्रिपुरसुन्दरीकवचं सम्पूर्णम् ॥

Explore More