ओं तत्त्वप्रकाशात्मने तर्जनीभ्यां नमः ।
ओं शङ्खचक्रगदाधरात्मने मध्यमाभ्यां नमः ।
ओं सृष्टिसंरक्षणार्थाय अनामिकाभ्यां नमः ।
ओं त्रिमूर्त्यात्मकाय कनिष्ठिकाभ्यां नमः ।
ओं वरदाभयहस्ताय करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः । भूर्भुवस्सुवरोमिति दिग्बन्धः ।
त्रैलोक्यव्यापकं देवं शुद्धमत्यन्तनिर्मलम् ॥ १ ॥
ऊर्णतन्तुनिभाकारं सूत्रज्ञं विठ्ठललं स्वयम् ॥ २ ॥
ज्ञानं भीमरथीतीरं स्वदेवं पण्डरीपुरम् ॥ ३ ॥
आज्ञाब्रह्मबिलान्तःस्थ ज्योतिर्मयस्वरूपकम् ॥ ४ ॥
सर्वदेवसमुत्पन्नं ओमितिज्योतिरूपकम् ॥ ५ ॥
स्तम्भो मध्यं यथा स्थानं कलौ वेङ्कटनायकम् ॥ ६ ॥
शङ्खचक्रधरं देवं वरदाभयहस्तकम् ॥ ७ ॥
रत्नसिंहासनं देवं सुवर्णमुकुटोज्ज्वलम् ॥ ८ ॥
पौण्ड्रं च पालिनं रङ्गं यदूनां कुलदीपकम् ॥ ९ ॥
ओं नमः शान्तिरूपाय सर्वलोकैकसिद्धये ॥ १० ॥
सर्वतन्त्रस्वरूपाय विठ्ठलाय नमो नमः ॥ ११ ॥
परतन्त्रविनाशाय विठ्ठलाय नमो नमः ॥ १२ ॥
परब्रह्मस्वरूपाय विठ्ठलाय नमो नमः ॥ १३ ॥
विश्वम्भरस्वमित्राय विठ्ठलाय नमो नमः ॥ १४ ॥
हंसमन्त्रस्वरूपाय विठ्ठलाय नमो नमः ॥ १५ ॥
आत्मतत्त्वप्रकाशाय विठ्ठलाय नमो नमः ॥ १६ ॥
ओङ्कारवाच्यरूपाय विठ्ठलाय नमो नमः ॥ १७ ॥
अभिन्नायैव विश्वाय विठ्ठलाय नमो नमः ॥ १८ ॥
पाण्डुरङ्गप्रकाशाय विठ्ठलाय नमो नमः ॥ १९ ॥
सर्वलोकहितार्थाय विठ्ठलाय नमो नमः ॥ २० ॥
सर्वयोगप्रदं नित्यं दीर्घमायुष्यवर्धनम् ॥ २१ ॥
आवर्तनसहस्रात्तु लभते वाञ्छितं फलम् ॥ २२ ॥
स ब्रह्मज्ञानमाप्नोति भुक्तिं मुक्तिं च विन्दति ॥ २३ ॥
सर्वापमृत्युशमनं सर्वराजवशीकरम् ॥ २४ ॥
त्रिसन्ध्यं पठते भक्त्या निर्भयो भवति ध्रुवम् ॥ २५ ॥
शृङ्खलाबन्धने चैव मुच्यते सर्वकिल्बिषात् ॥ २६ ॥
साधकः स्तम्भने चैव सर्वत्र विजयी भवेत् ॥ २७ ॥
