आवश्यकानि वस्तूनि
- आसनं
- दीपः
- गन्धः
- कुङ्कुमं
- अक्षताः
- पुष्पाणि
- धूपः
- नैवेद्यं
- ताम्बूलं
- आचमनीयं
- पूजा पात्रं
- कलशः
- शङ्खः [optional]
- विष्णु प्रतिमा वा चित्रपटः वा
पूर्वाङ्ग पूजा
पूर्वाङ्ग पूजा
श्रीमहागणाधिपतये नमः ।
श्री गुरुभ्यो नमः ।
हरिः ओम् ।
शुचिः
शुचिः
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्षाय नमः ॥
प्रार्थना
प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
अगजानन पद्मार्कं गजाननमहर्निशम् ।
अगजानन पद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥
तदेव लग्नं सुदिनं तदेव
तदेव लग्नं सुदिनं तदेव
ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव
लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥
सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके ।
सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते ॥
श्रीलक्ष्मीनारायणाभ्यां नमः ।
श्रीलक्ष्मीनारायणाभ्यां नमः ।
उमामहेश्वराभ्यां नमः ।
वाणीहिरण्यगर्भाभ्यां नमः ।
शचीपुरन्दराभ्यां नमः ।
अरुन्धतीवसिष्ठाभ्यां नमः ।
श्रीसीतारामाभ्यां नमः ।
मातापितृभ्यो नमः ।
सर्वेभ्यो महाजनेभ्यो नमः ।
आचमनं
आचमनं
ॐ केशवाय स्वाहा ।
ॐ नारायणाय स्वाहा ।
ॐ माधवाय स्वाहा ।
ॐ गोविन्दाय नमः ।
ॐ विष्णवे नमः ।
ॐ मधुसूदनाय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ वामनाय नमः ।
ॐ श्रीधराय नमः ।
ॐ हृषीकेशाय नमः ।
ॐ पद्मनाभाय नमः ।
ॐ दामोदराय नमः ।
ॐ सङ्कर्षणाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ प्रद्युम्नाय नमः ।
ॐ अनिरुद्धाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ अधोक्षजाय नमः ।
ॐ नारसिंहाय नमः ।
ॐ अच्युताय नमः ।
ॐ जनार्दनाय नमः ।
ॐ उपेन्द्राय नमः ।
ॐ हरये नमः ।
ॐ श्रीकृष्णाय नमः ।
दीपाराधनम्
दीपाराधनम्
दीपस्त्वं ब्रह्मरूपोऽसि ज्योतिषां प्रभुरव्ययः ।
सौभाग्यं देहि पुत्रांश्च सर्वान्कामांश्च देहि मे ॥
भो दीप देवि रूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत् ।
यावत्पूजां करिष्यामि तावत्त्वं सुस्थिरो भव ॥
दीपाराधन मुहूर्तः सुमुहूर्तोऽस्तु ॥
भूतोच्चाटनम्
भूतोच्चाटनम्
उत्तिष्ठन्तु भूतपिशाचाः य एते भूमिभारकाः ।
एतेषामविरोधेन ब्रह्मकर्म समारभे ॥
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्तारस्ते गच्छन्तु शिवाऽज्ञया ॥
प्राणायामः
प्राणायामः
ओ-म्भूः । ओ-म्भुवः॑ । ओग्ं सुवः॑ । ओ-म्महः॑ । ओ-ञ्जनः॑ । ओ-न्तपः॑ । ओग्ं सत्यम् ।
ओ-न्तत्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥
ओमापो॒ ज्योती॒ रसो॒-ऽमृत॒-म्ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥
सङ्कल्पः
मम उपात्त समस्त दुरितक्षय द्वारा श्रीपरमेश्वर प्रीत्यर्थं, मम/अस्माकं सहकुटुम्बस्य क्षेम-स्थैर्य-धैर्य-वीर्य-विजय-अभय-आयुः-आरोग्य-ऐश्वर्य-अभिवृद्ध्यर्थं, धर्मार्थ-काम-मोक्ष-चतुर्विध-पुरुषार्थ-फल-सिद्ध्यर्थं, सर्वाभीष्ट-सिद्ध्यर्थं, श्रीमन्नारायण-प्रीत्यर्थं, यावच्छक्ति ध्यान-आवाहनादि-षोडशोपचार-पूजां करिष्ये ॥
तदङ्ग कलशाराधनं करिष्ये ॥
कलशाराधनम्
तदङ्ग कलशाराधनं करिष्ये ॥
कलशाराधनम्
कलशे गन्ध पुष्पाक्षतैरभ्यर्च्य ।
कलशे उदकं पूरयित्वा ।
कलशस्योपरि हस्तं निधाय ।
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः ॥
अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः ॥
गङ्गे च यमुने चैव गोदावरी सरस्वती ।
गङ्गे च यमुने चैव गोदावरी सरस्वती ।
नर्मदे सिन्धु कावेरी जलेऽस्मिन् सन्निधिं कुरु ॥
कावेरी तुङ्गभद्रा च कृष्णवेणी च गौतमी ।
भागीरथीति विख्याताः पञ्चगङ्गाः प्रकीर्तिताः ॥
आयान्तु देवपूजार्थं मम दुरितक्षयकारकाः ।
आयान्तु देवपूजार्थं मम दुरितक्षयकारकाः ।
कलशोदकेन पूजा द्रव्याणि सम्प्रोक्ष्य, देवं सम्प्रोक्ष्य, आत्मानं च सम्प्रोक्ष्य ॥
शङ्खपूजा
शङ्खपूजा
शङ्खं चन्द्रार्क दैवतं मध्ये वरुण देवताम् ।
पृष्ठे प्रजापतिं विन्द्यादग्रे गङ्गा सरस्वतीम् ॥
त्रैलोक्ये यानि तीर्थानि वासुदेवस्य आज्ञया ।
शङ्खे तिष्ठन्तु विप्रेन्द्राः तस्मात् शङ्खं प्रपूजयेत् ॥
ॐ शङ्खाय नमः ।
ॐ शङ्खाय नमः ।
ॐ धवलाय नमः ।
ॐ पाञ्चजन्याय नमः ।
ॐ शङ्खदेवताभ्यो नमः ।
सकलपूजार्थे अक्षतान् समर्पयामि ॥
घण्टानादः
घण्टानादः
आगमार्थं तु देवानां गमनार्थं तु राक्षसाम् ।
घण्टारवं करोम्यादौ देवताह्वान लाञ्छनम् ॥
ॐ घण्टादेवताभ्यो नमः ।
सकलोपचार पूजार्थे अक्षतान् समर्पयामि ॥
श्री महागणपति पूजा
श्री महागणपति पूजा
ओ-ङ्ग॒णाना᳚-न्त्वा ग॒णप॑तिग्ं हवामहे क॒वि-ङ्क॑वी॒नां उप॒मश्र॑वस्तवम् ।
ज्ये॒ष्ठ॒राज॒-म्ब्रह्म॑णा-म्ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥
धूमकेतुर्गणाध्यक्षः फालचन्द्रो गजाननः ।
वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥
ॐ श्रीमहागणपतये नमः ।
ॐ श्रीमहागणपतये नमः ।
ध्यायामि । आवाहयामि । आसनं समर्पयामि ।
पाद्यं समर्पयामि । अर्घ्यं समर्पयामि । आचमनीयं समर्पयामि ।
स्नानं समर्पयामि । वस्त्रं समर्पयामि । यज्ञोपवीतं समर्पयामि ।
गन्धं समर्पयामि । पुष्पाणि समर्पयामि ।
धूपमाघ्रापयामि । दीपं दर्शयामि ।
नैवेद्यं समर्पयामि । ताम्बूलं समर्पयामि ।
नीराजनं समर्पयामि । मन्त्रपुष्पं समर्पयामि ।
प्रदक्षिण नमस्कारान् समर्पयामि ॥
षोडशोपचार पूजा
षोडशोपचार पूजा
विष्णु ध्यानम्
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
ओ-न्ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥
ॐ नमो नारायणाय ।
ध्यायामि । ध्यानं समर्पयामि ॥
आवाहनम्
आवाहनम्
स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्ष-स्स॒हस्र॑पात् ।
स भूमिं॑-विँ॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् ॥
आवाहयामि सर्वेश श्रीनिवास रमापते ।
कृपया देहि सान्निध्यं शरणागतवत्सल ॥
ॐ नमो नारायणाय ।
आवाहयामि । स्थापयामि । पूजयामि ॥
आसनम्
आसनम्
देवदेव जगन्नाथ प्रणतक्लेशनाशक ।
रत्नसिंहासनं दिव्यं गृहाण मधुसूदन ॥
ॐ नमो नारायणाय ।
आसनं समर्पयामि ॥
पाद्यम्
पाद्यम्
वाञ्छितं कुरु मे देव दुष्कृतं च विनाशय ।
पाद्यं गृहाण भगवन् भक्तचित्तस्थिरासन ॥
ॐ नमो नारायणाय ।
पादयोः पाद्यं समर्पयामि ॥
अर्घ्यम्
अर्घ्यम्
कुरुष्व मे दयां देव संसारार्तिभयापह ।
कुसुमाक्षत संयुक्तं गृहाणार्घ्यं नमोऽस्तु ते ॥
ॐ नमो नारायणाय ।
हस्तयोः अर्घ्यं समर्पयामि ॥
आचमनीयम्
आचमनीयम्
नमः सत्याय शुद्धाय नित्याय ज्ञानरूपिणे ।
गृहाणाचमनं देव सर्वलोकैकनायक ॥
ॐ नमो नारायणाय ।
मुखे आचमनीयं समर्पयामि ॥
स्नानम्
स्नानम्
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से ॥
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ॥
तस्मा॒ अर॑-ङ्गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥
ॐ नमो नारायणाय ।
शुद्धोदक स्नानं समर्पयामि ॥
स्नानानन्तरं आचमनीयं समर्पयामि ॥
वस्त्रम्
वस्त्रम्
वस्त्रयुग्मं च दिव्यं च शोभनं प्रीति वर्धनम् ।
ॐ नमो नारायणाय ।
वस्त्रं समर्पयामि ॥
यज्ञोपवीतम्
यज्ञोपवीतम्
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥
ॐ नमो नारायणाय ।
यज्ञोपवीतं समर्पयामि ॥
गन्धम्
गन्धम्
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ॥
ॐ नमो नारायणाय ।
गन्धं समर्पयामि ॥
अर्चन
अर्चन
अक्षतान् धवलान् दिव्यान् पुष्पाणि च सुगन्धीनि ।
भक्त्या दत्तानि गृह्यन्तां सर्वदेवाः प्रसीदत ॥
अङ्ग पूजा
अङ्ग पूजा
ॐ विष्णवे नमः - पादौ पूजयामि ।
ॐ नारायणाय नमः - गुल्फौ पूजयामि ।
ॐ माधवाय नमः - जानुनी पूजयामि ।
ॐ गोविन्दाय नमः - ऊरू पूजयामि ।
ॐ मधुसूदनाय नमः - कटिं पूजयामि ।
ॐ त्रिविक्रमाय नमः - उदरं पूजयामि ।
ॐ वामनाय नमः - हृदयं पूजयामि ।
ॐ श्रीधराय नमः - कण्ठं पूजयामि ।
ॐ हृषीकेशाय नमः - स्कन्धौ पूजयामि ।
ॐ पद्मनाभाय नमः - बाहू पूजयामि ।
ॐ दामोदराय नमः - हस्तौ पूजयामि ।
ॐ पुरुषोत्तमाय नमः - मुखं पूजयामि ।
ॐ अच्युताय नमः - नेत्रे पूजयामि ।
ॐ जनार्दनाय नमः - शिरः पूजयामि ।
ॐ श्रीकृष्णाय नमः - सर्वाण्यङ्गानि पूजयामि ॥
[Recite the SrI viShNu aShTOttara Sata nAmAvaLI, or at least a few known names of Vishnu. Offer flowers or akshatas with each name.]
[Recite the SrI viShNu aShTOttara Sata nAmAvaLI, or at least a few known names of Vishnu. Offer flowers or akshatas with each name.]
श्री विष्णु अष्टोत्तर शत नामावली>
अथवा विष्णु नामावली पठनम् ॥
ॐ नमो नारायणाय ।
ॐ नमो नारायणाय ।
अष्टोत्तर शत नामावली पूजां समर्पयामि ।
अक्षतान् पुष्पाणि च समर्पयामि ॥
धूपम्
धूपम्
वनस्पत्युद्भवैर्दिव्यैः नानागन्धैः सुसंयुतः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
ॐ नमो नारायणाय ।
धूपमाघ्रापयामि ॥
दीपम्
दीपम्
साज्यं त्रिवर्ति संयुक्तं वह्निना योजितं प्रियम् ।
गृहाण मङ्गलं दीपं त्रैलोक्य तिमिरापहम् ॥
ॐ नमो नारायणाय ।
दीपं दर्शयामि ॥
नैवेद्यम्
नैवेद्यम्
नैवेद्यं गृह्यतां देव भक्त्या सम्पादितं मया ।
इदं फलं च पानीयं सर्वोपचार संयुतम् ॥
ओ-म्भूर्भुव॒स्सुवः॒ । तत्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
धि॒यो यो नः॑ प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
अमृतमस्तु । अमृतोपस्तरणमसि ।
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा ।
ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा ।
मध्ये मध्ये पानीयं समर्पयामि ।
अमृतापिधानमसि ।
उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ॥
ॐ नमो नारायणाय ।
ॐ नमो नारायणाय ।
नैवेद्यं समर्पयामि ॥
ताम्बूलम्
ताम्बूलम्
पूगीफलश्च कर्पूरैः नागवल्लीदलैर्युतम् ।
मुक्ताचूर्ण संयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ॐ नमो नारायणाय ।
ताम्बूलं समर्पयामि ॥
नीराजनम्
नीराजनम्
वेदा॒हमे॒त-म्पुरु॑ष-म्म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्ण॒-न्तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वा-ऽभि॒वद॒न्॒, यदा-ऽऽस्ते᳚ ॥
श्रियः कान्ताय कल्याण निधये निधयेर्थिनाम् ।
श्रीनिवासाय देवाय नीराजनं समर्पये ॥
ॐ नमो नारायणाय ।
नीराजनं समर्पयामि ॥
मन्त्रपुष्पम्
मन्त्रपुष्पम्
तद्विष्णोः᳚ पर॒म-म्प॒दग्ं सदा॑ पश्यन्ति सू॒रयः॑ ।
दि॒वीव॒ चक्षु॒रात॑तम् ।
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाग्ं स॒स्समिं॑धते ।
विष्णो॒र्यत्प॑र॒म-म्प॒दम् ॥
ॐ नमो नारायणाय ।
मन्त्रपुष्पं समर्पयामि ॥
प्रदक्षिणम्
प्रदक्षिणम्
यानि कानि च पापानि जन्मान्तर कृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
ॐ नमो नारायणाय ।
प्रदक्षिण नमस्कारान् समर्पयामि ॥
नमस्कारः
नमस्कारः
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टाङ्ग उच्यते ॥
ॐ नमो नारायणाय ।
नमस्कारान् समर्पयामि ॥
सर्वोपचाराः
सर्वोपचाराः
ॐ नमो नारायणाय ।
छत्रं समर्पयामि ।
चामरं समर्पयामि ।
गीतं श्रावयामि ।
नृत्यं दर्शयामि ।
समस्त राजोपचारान् देवोपचारान् समर्पयामि ॥
स्तोत्र/सूक्त पठनम्
स्तोत्र/सूक्त पठनम्
पुरुष सूक्तम्>
नारायण सूक्तम्>
श्री विष्णु सहस्र नाम स्तोत्रम्>
क्षमाप्रार्थना
क्षमाप्रार्थना
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
कायेन वाचा मनसेन्द्रियैर्वा
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि ॥
अनया ध्यान-आवाहनादि-षोडशोपचार पूजया श्रीमन्नारायणः सुप्रीतः सुप्रसन्नः वरदो भवतु ॥
उद्वासनम्
अनया ध्यान-आवाहनादि-षोडशोपचार पूजया श्रीमन्नारायणः सुप्रीतः सुप्रसन्नः वरदो भवतु ॥
उद्वासनम्
ॐ नमो नारायणाय ।
यथास्थानं उद्वासयामि ।
शोभनार्थे क्षेमाय पुनरागमनाय च ॥
प्रसाद ग्रहणम्
प्रसाद ग्रहणम्
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं देवता पादोदकं शुभम् ॥
श्रीमन्नारायण प्रसादं शिरसा गृह्णामि ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ तत्सत् ब्रह्मार्पणमस्तु ॥
श्रीमन्नारायण प्रसादं शिरसा गृह्णामि ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ तत्सत् ब्रह्मार्पणमस्तु ॥

