Lord Yama

यमाष्टकम् (नरसिंहपुराणे)

(Yamashtakam)

Also known as yamashtak · svapurusamabhiviksya pasahastam vadati yamah kila tasya

Eight verses from the Narasimha Purana in which Yama speaks, and what he says is that his authority has limits. Seeing his servant with the noose in hand he tells him, in his ear, to keep away from those who have gone for refuge to Madhusudana: I am lord of other men and not of the Vaishnavas. The verses after it are stranger still, because the god of death argues his own case. He was appointed by the Creator to the good and ill of the world, so he governs mortals who are turned away from Hari and his teacher — and bows to those who bow at Hari's feet. He says he himself desires a good state, that his inner self rests in the devotee, that he is under Krishna's control and not independent, and that Krishna has power over him too, even in the restraining.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ यमाष्टकम् (नरसिंहपुराणे) ॥
स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले ।
परिहर मधुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम् ॥ १ ॥
अहममरगणार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः ।
हरिगुरुविमुखान् प्रशास्मि मर्त्यान् हरिचरणप्रणतान्नमस्करोमि ॥ २ ॥
सुगतिमभिलषामि वासुदेवादहमपि भागवते स्थितान्तरात्मा ।
मधुवधवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि कृष्णः ॥ ३ ॥
भगवति विमुखस्य नास्ति सिद्धिर्विषममृतं भवतीति नेदमस्ति ।
वर्षशतमपीह पच्यमानं व्रजति न काञ्चनतामयः कदाचित् ॥ ४ ॥
नहि शशिकलुषच्छविः कदाचिद्विरमति नो रवितामुपैति चन्द्रः ।
भगवति च हरावनन्यचेता भृशमलिनोऽपि विराजते मनुष्यः ॥ ५ ॥
महदपि सुविचार्य लोकतत्त्वं भगवदुपास्तिमृते न सिद्धिरस्ति ।
सुरगुरुसुदृढप्रसाददौ तौ हरिचरणौ स्मरतापवर्गहेतोः ॥ ६ ॥
शुभमिदमुपलभ्य मानुषत्वं सुकृतशतेन वृथेन्द्रियार्थहेतोः ।
रमयति कुरुते न मोक्षमार्ग दहयति चन्दनमाशु भस्महेतोः ॥ ७ ॥
मुकुलितकरकुङ्गलैः सुरेन्द्रैः सततनमस्कृतपादपङ्कजो यः ।
अविहतगतये सनातनाय जगति जनिं हरते नमोऽग्रजाय ॥ ८ ॥
॥ फलश्रुति ॥
यमाष्टकमिदं पुण्यं पठते यः शृणोति वा ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ९ ॥
इतीदमुक्तं यमवाक्यमुत्तमं मयाधुना ते हरिभक्तिवर्द्धनम् ।
पुनः प्रवक्ष्यामि पुरातनीं कथां भृगोस्तु पौत्रेण च या पुरा कृता ॥ १० ॥
॥ इति श्रीनरसिंहपुराणे यमाष्टकम् सम्पूर्णम् ॥

Explore More