Lord Shiva

श्री बिल्वाष्टकम्

(Bilvashtakam 14 Verses)

(त्रिदलं त्रिगुणाकारं त्रिनेत्रं च)

Note: For the original version of Bilvashtakam please click here. Composed by Sri Adi Shankaracharya, the famous Bilvashtakam extols the virtues of the Bilva leaf (also spelt Vilva, Bilwa) and Lord Shiva’s love for it. Sri Shiva Bilvashtakam is a very powerful chant that describes the power and glory of offering bilva leaves to Lord Shiva. They are to be offered in a group of three leaves and are said to have features that identify them with Lord Shiva himself. The Bilva leaf is trifoliate which signifies the holy Trinity: Brahma, Vishnu and Maheshwara. It also signifies the three eyes of Shiva. According to Shiva Purana, The Bilwa is the symbol of Lord Shiva. It is adored even by the Gods.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

Reading depth
Lyrics
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥ 1 ॥
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।
तवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ 2 ॥
कोटि कन्या महादानं तिलपर्वत कोटयः ।
काञ्चनं शैलदानेन एकबिल्वं शिवार्पणम् ॥
काशीक्षेत्र निवासं च कालभैरव दर्शनम् ।
प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥
इन्दुवारे व्रतं स्थित्वा निराहारो महेश्वराः ।
नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणम् ॥
रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तथा ।
तटाकानिच सन्तानं एकबिल्वं शिवार्पणम् ॥
अखण्ड बिल्वपत्रं च आयुतं शिवपूजनम् ।
कृतं नाम सहस्रेण एकबिल्वं शिवार्पणम् ॥
उमया सहदेवेश नन्दि वाहनमेव च ।
भस्मलेपन सर्वाङ्गं एकबिल्वं शिवार्पणम् ॥
सालग्रामेषु विप्राणां तटाकं दशकूपयोः ।
यज्ञकोटि सहस्रस्य एकबिल्वं शिवार्पणम् ॥
दन्ति कोटि सहस्रेषु अश्वमेधशतक्रतौ ।
कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥
बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनम् ।
अघोर पापसंहारं एकबिल्वं शिवार्पणम् ॥
सहस्रवेद पाठेषु ब्रह्मस्तापनमुच्यते ।
अनेकव्रत कोटीनां एकबिल्वं शिवार्पणम् ॥
अन्नदान सहस्रेषु सहस्रोपनयनं तथा ।
अनेक जन्मपापानि एकबिल्वं शिवार्पणम् ॥
बिल्वाष्टकमिदं पुण्यं यः पठेच्छिव सन्निधौ ।
शिवलोकमवाप्नोति एकबिल्वं शिवार्पणम् ॥

Explore More