महाराज्ञी महादेवः सदाराध्या सदाशिवः ॥ १ ॥
शक्तित्रितयरूपाढ्या मूर्तित्रितयरूपवान् ॥ २ ॥
दाक्षायणी दक्षवैरि शूलिनी शूलधारकः ॥ ३ ॥
श्रीमद्गणेशजननी षडाननसुजन्मभूः ॥ ४ ॥
चण्डमुण्डशिरश्छेत्री जलन्धरशिरोहरः ॥ ५ ॥
महिषासुरसंहर्त्री गजासुरविमर्दनः ॥ ६ ॥
भद्रकाली वीरभद्रो मीनाक्षी सुन्दरेश्वरः ॥ ७ ॥
मधुकैटभसंहर्त्री मधुरापुरनायकः ॥ ८ ॥
गिरिजाता गिरीशश्च वैष्णवी विष्णुवल्लभः ॥ ९ ॥
कौसुम्भवसनोपेता व्याघ्रचर्माम्बरावृतः ॥ १० ॥
रुण्डमालाविभूषाढ्या लसद्रुद्राक्षमालिकः ॥ ११ ॥
चन्द्रचूडा चन्द्रमौलिर्महामाया महेश्वरः ॥ १२ ॥
बिन्दुपीठसुखासीना श्रीमदोङ्कारपीठगः ॥ १३ ॥
महापद्माटवीलोला महाबिल्वाटवीप्रियः ॥ १४ ॥
वेदवेद्या वेदवाजी चक्रेशी विष्णुचक्रदः ॥ १५ ॥
रामार्चितपदाम्भोजा कृष्णपुत्रवरप्रदः ॥ १६ ॥
सूर्यचन्द्राग्निनयना तेजस्त्रयविलोचनः ॥ १७ ॥
कम्बुकण्ठी कालकण्ठो वज्रेशी वज्रिपूजितः ॥ १८ ॥
हयग्रीववरोद्धात्री मार्कण्डेयवरप्रदः ॥ १९ ॥
विन्ध्याचलकृतावासा विन्ध्यशैलार्यपूजितः ॥ २० ॥
योगनिद्रा योगगम्यो भवानी भवमूर्तिमान् ॥ २१ ॥
श्रीविद्या वेद्यमहिमा निगमागमसंश्रयः ॥ २२ ॥
अष्टादशभुजायुक्ता पञ्चाशत्करमण्डितः ॥ २३ ॥
स्थिरा स्थाणुस्तथा बाला सद्योजात उमा मृडः ॥ २४ ॥
कदम्बकाननावासा दारुकारण्यलोलुपः ॥ २५ ॥
नवावरणसम्पूज्या पञ्चायतनपूजितः ॥ २६ ॥
योगिनीगणसंसेव्या भृङ्ग्यादिप्रमथावृतः ॥ २७ ॥
नागवेणी नागभूषो मन्त्रिणी मन्त्रदैवतः ॥ २८ ॥
पार्थाञ्जनास्त्रसन्धात्री पार्थपाशुपतास्त्रदः ॥ २९ ॥
बाणपुत्रीवरोद्धात्री बाणासुरवरप्रदः ॥ ३० ॥
नवलावण्यरूपाढ्या नवयौवनविग्रहः ॥ ३१ ॥
तन्त्रोपचारसुप्रीता तन्त्रादिमविधायकः ॥ ३२ ॥
भ्रमरज्या वासुकिज्यो भेरुण्डा भीमपूजितः ॥ ३३ ॥
सहस्राराम्बुजारूढा सहस्रकमलार्चितः ॥ ३४ ॥
श्रीशैलभ्रमराम्बाख्या मल्लिकार्जुनपूजितः ॥ ३५ ॥
चन्द्रमण्डलमध्यस्था मुनिमानसहंसकः ॥ ३६ ॥
स्वयम्प्रभा स्वप्रकाशः कालरात्री कृतान्तहृत् ॥ ३७ ॥
सर्वचैतन्यरूपाढ्या सच्चिदानन्दविग्रहः ॥ ३८ ॥
राजराजेश्वरी श्रीमद्राजराजप्रियङ्करः ॥ ३९ ॥
पठन्नर्चन् सदा भक्त्या सर्वसाम्राज्यमाप्नुयात् ॥ ४० ॥
