Goddess Devi

श्री अनघादेवि अष्टोत्तरशतनाम स्तोत्रम्

(Sri Anagha Devi Ashtottara Shatanama Stotram)

Also known as shri anagha devi ashtottara shatanama stotram · shree anagha devi ashtottara shatanama stotram · anagha devi ashtottara shatanama stotram

A hundred and eight names of Anagha Devi in verse, and the first line says who she is: the sinless one, the great goddess, Mahalakshmi, and the wife of Anagha Swami — which is Dattatreya under the name he takes in this observance. The names keep the household of that vow in view, giving her the eight sons whose family she keeps and the threefold sin she tears apart. Later names bring in Kartavirya, whose devotion to Datta the tradition remembers, and Bhargava, whom she is quickly pleased with. The closing verse calls her the wife of Datta and one to be established through the end of the Veda. The same names stand here in salutation form.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ स्तोत्रम् ॥
अनघायै महादेव्यै महालक्ष्म्यै नमो नमः ।
अनघस्वामिपत्न्यै च योगेशायै नमो नमः ॥ १ ॥
त्रिविधाघविदारिण्यै त्रिगुणायै नमो नमः ।
अष्टपुत्रकुटुम्बिन्यै सिद्धसेव्यपदे नमः ॥ २ ॥
आत्रेयगृहदीपायै विनीतायै नमो नमः ।
अनसूयाप्रीतिदायै मनोज्ञायै नमो नमः ॥ ३ ॥
योगशक्तिस्वरूपिण्यै योगातीतहृदे नमः ।
भर्तृशुश्रूषणोत्कायै मतिमत्यै नमो नमः ॥ ४ ॥
तापसीवेषधारिण्यै तापत्रयनुदे नमः ।
चित्रासनोपविष्टायै पद्मासनयुजे नमः ॥ ५ ॥
रत्नाङ्गुलीयकलसत्पदाङ्गुल्यै नमो नमः ।
पद्मगर्भोपमानाङ्घ्रितलायै च नमो नमः ॥ ६ ॥
हरिद्राञ्चत्प्रपादायै मञ्जीरकलजत्रवे ।
शुचिवल्कलधारिण्यै काञ्चीदामयुजे नमः ॥ ७ ॥
गलेमाङ्गल्यसूत्रायै ग्रैवेयालीधृते नमः ।
क्वणत्कङ्कणयुक्तायै पुष्पालङ्कृतये नमः ॥ ८ ॥
अभीतिमुद्राहस्तायै लीलाम्भोजधृते नमः ।
ताटङ्कयुगदीप्रायै नानारत्नसुदीप्तये ॥ ९ ॥
ध्यानस्थिराक्ष्यै फालाञ्चत्तिलकायै नमो नमः ।
मूर्धाबद्धजटाराजत्सुमदामालये नमः ॥ १० ॥
भर्त्राज्ञापालनायै च नानावेषधृते नमः ।
पञ्चपर्वान्विताऽविद्यारूपिकायै नमो नमः ॥ ११ ॥
सर्वावरणशीलायै स्वबलाऽऽवृतवेधसे ।
विष्णुपत्न्यै वेदमात्रे स्वच्छशङ्खधृते नमः ॥ १२ ॥
मन्दहासमनोज्ञायै मन्त्रतत्त्वविदे नमः ।
दत्तपार्श्वनिवासायै रेणुकेष्टकृते नमः ॥ १३ ॥
मुखनिःसृतशम्पाऽऽभत्रयीदीप्त्यै नमो नमः ।
विधातृवेदसन्धात्र्यै सृष्टिशक्त्यै नमो नमः ॥ १४ ॥
शान्तिलक्ष्मै गायिकायै ब्राह्मण्यै च नमो नमः ।
योगचर्यारतायै च नर्तिकायै नमो नमः ॥ १५ ॥
दत्तवामाङ्कसंस्थायै जगदिष्टकृते नमः ।
शूभायै चारुसर्वाङ्ग्यै चन्द्रास्यायै नमो नमः ॥ १६ ॥
दुर्मानसक्षोभकर्यै साधुहृच्छान्तये नमः ।
सर्वान्तःसंस्थितायै च सर्वान्तर्गतये नमः ॥ १७ ॥
पादस्थितायै पद्मायै गृहदायै नमो नमः ।
सक्थिस्थितायै सद्रत्नवस्त्रदायै नमो नमः ॥ १८ ॥
गुह्यस्थानस्थितायै च पत्नीदायै नमो नमः ।
क्रोडस्थायै पुत्रदायै वंशवृद्धिकृते नमः ॥ १९ ॥
हृद्गतायै सर्वकामपूरणायै नमो नमः ।
कण्ठस्थितायै हारादिभूषादात्र्यै नमो नमः ॥ २० ॥
प्रवासिबन्धुसम्योगदायिकायै नमो नमः ।
मिष्टान्नदायै वाक्छक्तिदायै ब्राह्म्यै नमो नमः ॥ २१ ॥
आज्ञाबलप्रदात्र्यै च सर्वैश्वर्यकृते नमः ।
मुखस्थितायै कविताशक्तिदायै नमो नमः ॥ २२ ॥
शिरोगतायै निर्दाहकर्यै रौद्र्यै नमो नमः ।
जम्भासुरविदाहिन्यै जम्भवंशहृते नमः ॥ २३ ॥
दत्ताङ्कसंस्थितायै च वैष्णव्यै च नमो नमः ।
इन्द्रराज्यप्रदायिन्यै देवप्रीतिकृते नमः ॥ २४ ॥
नहुषाऽऽत्मजदात्र्यै च लोकमात्रे नमो नमः ।
धर्मकीर्तिसुबोधिन्यै शास्त्रमात्रे नमो नमः ॥ २५ ॥
भार्गवक्षिप्रतुष्टायै कालत्रयविदे नमः ।
कार्तवीर्यव्रतप्रीतमतये शुचये नमः ॥ २६ ॥
कार्तवीर्यप्रसन्नायै सर्वसिद्धिकृते नमः ॥ २७ ॥
॥ फलश्रुति ॥
इत्येवमनघादेव्या दत्तपत्न्या मनोहरम् ।
वेदन्तप्रतिपाद्याया नाम्नामष्टोत्तरं शतम् ॥ २८ ॥
॥ इति श्री अनघादेवि अष्टोत्तरशतनाम स्तोत्रम् सम्पूर्णम् ॥

Explore More