श्री गणेशाय नमः ।
यज्ञोऽच्युतः कटितटं जठरं हयास्यः ।
हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं
विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥ 1 ॥
त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च ।
कोणेषु शङ्ख उरुगाय उपर्युपेन्द्रस्
तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥ 2 ॥
श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ 3 ॥
क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥ 4 ॥
भुञ्जानं यज्ञभुक्पातु सर्वग्रहभयङ्करः ॥ 5 ॥
भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ॥ 6 ॥
उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः ॥ 7 ॥
सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः ॥ 8 ॥
