सर्वामयविनाशनाय त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥
सञ्जीवयन्तममितात्मसुखं परेशम् ।
ज्ञानं सुधाकलशमेव च सन्दधानं
शीतांशुमण्डलगतं स्मरतात्मसंस्थम् ॥
भ्रूमध्यगाच्च तत एव च तानुसंस्थात् ।
हार्दाच्च नाभिसदनादधरस्थिताच्च
ध्यात्वाभिपूरिततनुः दुरितं निहन्यात् ॥
योगोऽयमाशु विनिहन्ति सुखं च दद्यात् ।
उन्माद-विभ्रमहरः हरतश्च सान्द्रम्
आनन्दमेव पदमापयति स्म नित्यम् ॥
एवं स यस्य शिरसि स्वकरं निधाय ।
आवर्तयेन्मनुमिमं स च वीतरोगः
पापादपैति मनसा यदि भक्तिनम्रः ॥
धं धन्वन्तरये नमः
धं धन्वन्तरये नमः ॥
श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः ॥
नीलकुञ्चितकेशान्तः सुभगः सिंहविक्रमः ॥
स वै भगवतः साक्षाद् विष्णोरंशांशसम्भवः ।
धन्वन्तरिरिति ख्यातः आयुर्वेददृगित्यभाक् ।
एवं धन्वन्तरिं ध्यायेत् साधकोऽभीष्टसिद्धये ॥
सर्वामयविनाशनाय त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥
धान्वन्तरावसथमन्वन्तराधिकृतधन्वन्तरौषधनिधे ।
धन्वन्तरंगशुगुधन्वन्तमायिषु वितन्वन् ममाब्धितनय
वितन्वन् सून्वन्ततात्मकृततन्वन्तरावयवतन्वन्तरार्तिजलधौ ॥
नाम्ना नृणां पुरुरुजां रुज आशु हन्ति ।
यज्ञे च भागममृतायुरवाप
आयुष्यवेदमनुशास्त्यवतीर्य लोके ॥
सुधाकलशहस्तं तं वन्दे धन्वन्तरिं हरिम् ॥
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥
अयं मे विश्वभेषजोऽयं शिवाभिमर्षणः ॥
रोगान्मे नाशयाशेषान् आशु धन्वन्तरे हरे ॥
धं धन्वन्तरये नमः
धं धन्वन्तरये नमः ॥
सर्वामयविनाशनाय त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥
