Lord Vishnu

हंस गुह्य स्तोत्रम् (भागवत पुराण)

(Hamsa Guhya Stotram)

From Bhagavata Purana

The Hamsa Guhya Stotram is a profound hymn found in the Bhagavata Purana, delivered by Daksha Prajapati to Lord Vishnu to seek His grace for creation. It reveals the Supreme Being as the ultimate witness, transcending the three modes of material nature. Chanting this stotra is believed to bestow spiritual wisdom, liberation from the cycle of birth and death, and deep intuitive realization of the Divine. It serves as a powerful meditative tool for seekers aiming to perceive the Indwelling Spirit within all beings, ultimately leading to the removal of ignorance and ego.

(भागवतपुराणान्तर्गतम्)
नमः परायावितथानुभूतये
गुणत्रयाभासनिमित्तबन्धवे ।
अदृष्टधाम्ने गुणतत्त्वबुद्धिभिः
निवृत्तमानाय दधे स्वयम्भुवे ॥ 1 ॥
न यस्य सख्यं पुरुषोऽवैति सख्युः
सखा वसन्संवसतः पुरेऽस्मिन् ।
गुणो यथा गुणिनो व्यक्तदृष्टेः
तस्मै महेशाय नमस्करोमि ॥ 2 ॥
देहोऽसवोऽक्षा मनवो भूतमात्रा
नात्मानमन्यं च विदुः परं यत् ।
सर्वं पुमान् वेद गुणांश्च तज्ज्ञो
न वेद सर्वज्ञमनन्तमीडे ॥ 3 ॥
यदोपरामो मनसो नामरूप-
रूपस्य दृष्टस्मृतिसप्रमोषात् ।
य ईयते केवलया स्वसंस्थया
हंसाय तस्मै शुचिसद्मने नमः ॥ 4 ॥
मनीषिणोऽन्तर्हदि सन्निवेशितं
स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः ।
वह्निं यथा दारुणि पाञ्चदश्यं
मनीषया निष्कर्षन्ति गूढम् ॥ 5 ॥
स वै ममाशेषविशेषमाया
निषेधनिवाणसुखानुभूतिः ।
स सर्वनामा स च विश्वरूपः
प्रसीदतामनिरुक्तात्मशक्तिः ॥ 6 ॥
यद्यन्निरुक्तं वचसा निरूपितं
धियाऽक्षभिर्वा मनसा वोत यस्य ।
मा भूत्स्वरूपं गुणरूपं हि तत्तत्
स वै गुणापायविसर्गलक्षणः ॥ 7 ॥
यस्मिन् यतो येन च यस्य यस्मै
यद्यो यथा कुरूते कार्यते च ।
परावरेषां परमं प्राक् प्रसिद्धं
तद्ब्रह्म तद्धेतुरनन्यदेकम् ॥ 8 ॥
यच्छक्तयो वदतां वादितां वै
विवादसंवादभुवो भवन्ति ।
कुर्वन्ति चैषां मुहुरात्ममोहं
तस्मै नमोऽनन्तगुणाय भूम्ने ॥ 9 ॥
अस्तीति नास्तीति च वस्तुनिष्ठयोः
एकस्थयोर्भिन्नविरुद्धधर्मयोः ।
अवेक्षितं किं च न योगसाङ्ख्ययोः
समं परं ह्यनुकूलं बृहत्तत् ॥ 10 ॥
योऽनुगहार्थं भजतां पादमूलमनामरूपो भगवाननन्तः ।
नामानि रूपाणि च जन्मकर्मभिर्भेजे स मह्यं परमः प्रसीदतु ॥ 11 ॥
यः प्राकृतैर्ज्ञानपथैर्जनानां
यथाशयं देहगतो विभाति ।
यथानिलः पार्थिवमाश्रितो गुणं
स ईश्वरो मे कुरुतान्मनोरथम् ॥ 12 ॥
॥ इति हंसगुह्यस्तोत्रं सम्पूर्णम् ॥

Explore More