दाल्भ्यः
अमाङ्गल्येषु दृष्टेषु यज्जप्तव्यं तदुच्यताम् ॥ 1 ॥
अमङ्गलानां दृष्टानां परिहारश्च जायते ॥ 2 ॥
जनार्दनं भूतपतिं जगद्गुरुं स्मरन् मनुष्यः सततं महामुने ।
दुष्टान्यशेषण्यपहन्ति साधयति अशेषकार्याणि च यान्यभीप्सति ॥ 3 ॥
सर्वार्थसिद्धिं प्रददाति यत् सदा निहन्त्य्शेषाणि च पातकानि ॥ 4 ॥
जगच्च पात्यत्ति च यः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 5 ॥
अस्थूलसूक्ष्मः सततं परेश्वरो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 6 ॥
स हेतुहेतुः परमेश्वरेश्वरः ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 7 ॥
गुणाग्रणीर्यो भगवान् स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 8 ॥
परः समस्तस्य च यः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 9 ॥
मनोभिरामः पुरुषः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 10 ॥
स शुद्धशुद्धः परमेश्वरेश्वरो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 11 ॥
पापेन्धनाग्निः स सदैव निर्मलो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 12 ॥
बिभर्ति विश्वं जगतः स मूलं ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 13 ॥
यस्येश्वरेशस्य स सर्वदा प्रभुः ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 14 ॥
वराहरूपी भगवान् स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 15 ॥
यज्ञेश्वरो यज्ञपुमान् स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 16 ॥
यस्योपमानं न बभूव सोऽच्युतो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 17 ॥
श्रुतं जयेत्युक्तिपरैः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 18 ॥
नतं वपुर्योगिवरैः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 19 ॥
वराहरूपः स पतिः प्रजापतिः ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 20 ॥
त्रातुं जगत् येन स सर्वदा प्रभुः ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 21 ॥
करेरुहैर्यः क्रकचानुकारिभिः ।
विच्छेद लोकस्य भयानि सोऽच्युतो
ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 22 ॥
निनादवित्रासितदानवो ह्यसौ ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 23 ॥
स सर्वलोकार्तिहरो नृकेसरी ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 24 ॥
स दिव्यसिंहः स्फुरितानलेक्षणो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 25 ॥
कुतः शशाङ्कस्य स दिव्यरूपधृक् ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 26 ॥
स सर्वलोकार्तिहरो महाहरिः ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 27 ॥
यत्कीर्तनात् सोऽद्भुतरूपकेसरी ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 28 ॥
चक्रे जगत् वामनकः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 29 ॥
स वामनो दिव्यशरीररूपदृं ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 30 ॥
स वामनः सर्वजगन्मयः सदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 31 ॥
स वामनोऽन्तस्थितसप्तलोकधृं ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 32 ॥
स्तुतः क्रमाद् यः प्रच्चार सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 33 ॥
स देवदेवो भुवनेश्वरेश्वरो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 34 ॥
सुरांश्च यज्ञांशभुजः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 35 ॥
स कैटभारिमधुहाऽम्बुशायी ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 36 ॥
यः कार्तवीर्यस्य स भार्गवोत्तमो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 37 ॥
निबद्ध्य सेतुं जलधौ दशाननम् ।
जघान चान्यान् रजनीचरान् असौ
ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 38 ॥
ममर्द चाणूरमुखान् स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 39 ॥
कौमोदकी चापि गदामनन्तो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 40 ॥
मध्याह्नकालेऽपि स शन्खमुद्वहन् ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 41 ॥
विस्तारिपद्मायतपत्रलोचनो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 42 ॥
सर्वैः स्वरूपैर्भगवान् अनादिमान् ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 43 ॥
विमुच्यते विष्णुपरो मनुष्यः ।
सिद्ध्यन्ति कार्याणि तथाऽस्य सर्वान्
अर्थानवाप्नोति यथेच्छते तान् ॥ 44 ॥
स्तोत्रेऽस्मिन् श्रवणविधौ सदोद्यतस्य ।
प्रारम्भो द्रुतमुपयाति सिद्धिमीशः
पापानि क्षपयति चास्य देवदेवः ॥ 45 ॥
निर्विघ्नामधिकफलां श्रियं ददाति ।
किं लोके तदिह परत्र चापि पुंसां
यद्विष्णुप्रवणधियां न दाल्भ्य! साध्यम् ॥ 46 ॥
संसिद्धिं त्रिभुवनगां च कार्तवीर्यः ।
वैदेहः परमपदं प्रसाद्य विष्णुं
सम्प्राप्ताः सकलफलप्रदो हि विष्णुः ॥ 47 ॥
जपेदेकमना विष्णौ तथाऽमङ्गल्यदर्शने ॥ 48 ॥
कर्मारम्भाश्च सिद्ध्यन्ति पुण्यमाप्नोति चोत्तमम् ॥ 49 ॥
करोत्यखिलरूपैस्तु रक्षामक्षतशक्तिभृत् ॥ 50 ॥
॥ श्रीविष्णुधर्मोत्तरान्तर्गतः माङ्गल्यस्तवः
