Goddess Garbharakshambika

गर्भरक्षाम्बिका स्तोत्रम्

(Garbharakshambika Stotram)

Traditional

The Garbharakshambika Stotram is a sacred Sanskrit hymn dedicated to the Mother Goddess enshrined at the Garbharakshambika temple in Thirukarugavur, Tamil Nadu. The name itself signifies the Protector of the Womb. This powerful stotra is traditionally chanted by expectant mothers to seek divine blessings for a safe and healthy pregnancy, smooth delivery, and the well-being of the unborn child. It is believed that sincere recitation of these verses removes complications during gestation, grants protection against maternal distress, and fosters a deep spiritual connection with the Goddess, who is revered as the ultimate nurturer and source of life.

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥
वापीतटे वामभागे
वामदेवस्य देवस्य देवि स्थिता त्वम् ।
मान्या वरेण्या वदान्या
पाहि गर्भस्थजन्तून् तथा भक्तलोकान् ॥ 1 ॥
श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥
श्रीगर्भरक्षापुरे या
दिव्यसौन्दर्ययुक्ता सुमाङ्गल्यगात्री ।
धात्री जनित्री जनानां
दिव्यरूपां दयार्द्रां मनोज्ञां भजे त्वाम् ॥ 2 ॥
श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥
आषाढमासे सुपुण्ये
शुक्रवारे सुगन्धेन गन्धेन लिप्ता ।
दिव्याम्बराकल्पवेषा
वाजपेयादियागस्थभक्तैः सुदृष्टा ॥ 3 ॥
श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥
कल्याणदात्रीं नमस्ये
वेदिकाढ्यस्त्रिया गर्भरक्षाकरीं त्वाम् ।
बालैस्सदा सेविताङ्घ्रिं
गर्भरक्षार्थमारादुपेतैरुपेताम् ॥ 4 ॥
श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥
ब्रह्मोत्सवे विप्रवीथ्यां
वाद्यघोषेण तुष्टां रथे सन्निविष्टाम् ।
सर्वार्थदात्रीं भजेऽहं
देववृन्दैरपीड्यां जगन्मातरं त्वाम् ॥ 5 ॥
श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥
एतत् कृतं स्तोत्ररत्नं
दीक्षितानन्तरामेण देव्याश्च तुष्ट्यै ।
नित्यं पठेद्यस्तु भक्त्या
पुत्रपौत्रादि भाग्यं भवेत्तस्य नित्यम् ॥ 6 ॥
श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥
इति श्रीअनन्तरामदीक्षितवर्य विरचितं गर्भरक्षाम्बिका स्तोत्रम् ॥

Explore More