श्री सदाशिव ऋषिः, अनुष्टुप् छन्दः,
श्री सप्तमातृका देवताः,
मम सर्वभीष्टसिद्धये जपे विनियोगः ॥
कौमारी रिपुदर्पनाशनकरी चक्रायुधा वैष्णवी ।
वाराही घनघोरघर्घरमुखी चैन्द्री च वज्रायुधा
चामुण्डा गणनाथरुद्रसहिता रक्षन्तु नो मातरः ॥
१. ब्रह्माणी (Brahmani)
स्रुवं च पुस्तकं धत्ते ऊर्ध्वहस्तद्वये शुभा ॥ १ ॥
ब्रह्माणी देव्यै नमः ।
२. माहेश्वरी (Maheshwari)
कपालशूलखट्वाङ्गवरदा च चतुर्भुजा ॥ २ ॥
माहेश्वरी देव्यै नमः ।
३. कौमारी (Kaumari)
रक्तवस्त्रधरा तद्वच्छूलशक्तिगदाधरा ॥ ३ ॥
कौमारी देव्यै नमः ।
४. वैष्णवी (Vaishnavi)
चतुर्बाहुश्च वरदा शङ्खचक्रगदाधरा ॥ ४ ॥
वैष्णवी देव्यै नमः ।
५. वाराही (Varahi)
वराहसदृशी घण्टानादा चामरधारिणी ॥ ५ ॥
गदाचक्रधरा तद्वद्दानवेन्द्रविघातिनी ।
लोकानां च हितार्थाय सर्वव्याधिविनाशिनी ॥ ६ ॥
वाराही देव्यै नमः ।
६. इन्द्राणी / ऐन्द्री (Indrani/Aindri)
गजासनगता देवी लोचनैर्बहुभिर्वृता ॥ ७ ॥
इन्द्राणी देव्यै नमः ।
७. चामुण्डा (Chamunda)
दिग्बाहुः क्षामकुक्षिश्च मुसलं चक्रमार्गणौ ॥ ८ ॥
अङ्कुशं बिभ्रती खड्गं दक्षिणेष्वथ वामतः ।
खेटं पाशं धनुर्दण्डं कुठारं चेति बिभ्रती ॥ ९ ॥
चामुण्डा प्रेतगा रक्ता विकृतास्याहिभूषणा ।
द्विभुजा वा प्रकर्तव्या कृत्तिकाकार्यरन्विता ॥ १० ॥
चामुण्डा देव्यै नमः ।
