Lord Krishna

कृष्ण स्तुतिः (अक्रूर कृता)

(Krishna Stutih (Akrura Krita))

From Padma Purana

This profound hymn is composed by Akrura, a devout uncle of Lord Krishna, after he experiences a divine vision of the Lord within the waters of the Yamuna River. Found in the Padma Purana, this stotra captures Akrura’s realization of Krishna’s status as the Supreme Personality of Godhead, the eternal origin of all existence. Chanting this prayer helps devotees cultivate surrender, gain spiritual clarity, and transcend the illusions of the material world. It serves as a powerful meditation on the omnipresence and divine nature of Lord Krishna, fostering deep love and devotion.

(पद्मपुराण, उत्तरखण्ड, 245.304-318)
दृष्ट्वा तस्मिन् जले देवं विस्मयं परमं ययौ ।
तुष्टावाथ यदुश्रेष्ठो हरिं सर्वगमीश्वरम् ॥ 304 ॥
अक्रूर उवाच
कालात्मने नमस्तुभ्यमनादिनिधनाय च ।
अव्यक्ताय नमस्तुभ्यमविकाराय ते नमः ॥ 305 ॥
भूतभर्त्रे नमस्तुभ्यं भूतव्याघ्र नमो नमः ।
नमस्ते सर्वभूतानां नियन्त्रे परमात्मने ॥ 306 ॥
विकारायाविकाराय प्रत्यक्षपुरुषाय च ।
गुणभर्त्रे नमस्तुभ्यं नियमाय नमो नमः ॥ 307 ॥
देशकालादिनिर्भेदरहिताय परात्मने ।
अनन्ताय नमस्तुभ्यमच्युताय नमो नमः ॥ 308 ॥
गोविन्दाय नमस्तुभ्यं त्रयीनाथाय शार्ङ्गिणे ।
नारायणाय विश्वाय वासुदेवाय ते नमः ॥ 309 ॥
विष्णवे पुरुरूपाय शाश्वताय नमो नमः ।
पद्मनेत्राय नित्याय शङ्खचक्रधराय च ॥ 310 ॥
उद्यत्कोटिरविप्रख्य भूषणाञ्चितवर्चसे ।
हरये सर्वलोकानामीश्वराय नमो नमः ॥ 311 ॥
सवित्रे सर्वजगतां बीजाय परमात्मने ।
सङ्कर्षणाय कृष्णाय प्रद्युम्नाय नमो नमः ॥ 312 ॥
अनिरुद्धाय धात्रे च विधात्रे विश्वयोनये ।
सहस्रमूर्त्तये तुभ्यं बहुमूर्द्धाङ्घ्रिबाहवे ॥ 313 ॥
सहस्रनाम्ने नित्याय पुरुषाय नमो नमः ।
नमस्ते नागपर्यङ्कशायिने सौम्यरूपिणे ॥ 314 ॥
केशवाय नमस्तुभ्यं पीतवस्त्रधराय च ।
लक्ष्मीघनकुचाश्लेषविमर्दोज्ज्वलवर्चसे ।
श्रीधराय नमस्तुभ्यं श्रीशायानन्तरूपिणे ॥ 315 ॥
ईश्वर उवाच
स्नानकाले पठेद्यस्तु देवं ध्यायन्सनातनम् ।
इमं स्तवं नरो भक्त्या महद्भिर्मुच्यते ह्यघैः ॥ 316 ॥
सर्वतीर्थफलं प्राप्य विष्णुसायुज्यमाप्नुयात् ।
एवमन्तर्जले देवं स्तुत्वा भागवतोत्तमः ॥ 317 ॥
अर्चयामास स जलैः कुसुमैश्च सुगन्धिभिः ।
कृतकृत्यस्तदाक्रूरो निर्गत्य यमुनाजलात् ॥ 318 ॥
॥ इति श्रीपद्मपुराणे उत्तरखण्डे पञ्चचत्वारिंशाधिकद्विशततमाध्यायान्तर्गतं अक्रूरकृता श्रीकृष्णस्तुतिः समाप्ता ॥

Explore More