दृष्ट्वा तस्मिन् जले देवं विस्मयं परमं ययौ ।
तुष्टावाथ यदुश्रेष्ठो हरिं सर्वगमीश्वरम् ॥ 304 ॥
कालात्मने नमस्तुभ्यमनादिनिधनाय च ।
अव्यक्ताय नमस्तुभ्यमविकाराय ते नमः ॥ 305 ॥
नमस्ते सर्वभूतानां नियन्त्रे परमात्मने ॥ 306 ॥
गुणभर्त्रे नमस्तुभ्यं नियमाय नमो नमः ॥ 307 ॥
अनन्ताय नमस्तुभ्यमच्युताय नमो नमः ॥ 308 ॥
नारायणाय विश्वाय वासुदेवाय ते नमः ॥ 309 ॥
पद्मनेत्राय नित्याय शङ्खचक्रधराय च ॥ 310 ॥
हरये सर्वलोकानामीश्वराय नमो नमः ॥ 311 ॥
सङ्कर्षणाय कृष्णाय प्रद्युम्नाय नमो नमः ॥ 312 ॥
सहस्रमूर्त्तये तुभ्यं बहुमूर्द्धाङ्घ्रिबाहवे ॥ 313 ॥
नमस्ते नागपर्यङ्कशायिने सौम्यरूपिणे ॥ 314 ॥
लक्ष्मीघनकुचाश्लेषविमर्दोज्ज्वलवर्चसे ।
श्रीधराय नमस्तुभ्यं श्रीशायानन्तरूपिणे ॥ 315 ॥
स्नानकाले पठेद्यस्तु देवं ध्यायन्सनातनम् ।
इमं स्तवं नरो भक्त्या महद्भिर्मुच्यते ह्यघैः ॥ 316 ॥
एवमन्तर्जले देवं स्तुत्वा भागवतोत्तमः ॥ 317 ॥
कृतकृत्यस्तदाक्रूरो निर्गत्य यमुनाजलात् ॥ 318 ॥
