वितरन्तो नवसन्देशम्
घटयामो नव सङ्घटनम्
रचयामो नवमितिहासम् ॥
राष्ट्रसमुन्नति काङ्क्षिणः
त्यागधनाः कार्येकरताः
कृतिनिपुणाः वयमविषण्णाः ॥ कृत्वा ॥
दिनदरिद्रान् समुद्धरन्तः
दुःखवितप्तान् समाश्वसन्तः
कृतसङ्कल्पान् सदा स्मरन्तः ॥ कृत्वा ॥
प्रगतिपथान्नहि विचलेम
परम्परां संरक्षेम
समोत्साहिनो निरुद्वेगीनो
नित्य निरन्तर गतिशीलाः ॥ कृत्वा ॥
