स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्ष-स्स॒हस्र॑पात् । स भूमिं॑-विँ॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठ-द्दशाङ्गु॒लम् । पुरु॑ष ए॒वेदग्ं सर्व᳚म् । य-द्भू॒तं-यँच्च॒ भव्य᳚म् ।
उ॒तामृ॑त॒त्वस्येशा॑नः । यदन्ने॑ना-ति॒रोह॑ति ।
ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ॥ 1
ततो॒ विष्वं॒-व्यँ॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि ॥ तस्मा᳚-द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चा-द्भूमि॒मथो॑ पु॒रः ॥ 2
तं-यँ॒ज्ञ-म्ब॒र्हिषि॒ प्रौक्षन्न्॑ । पुरु॑ष-ञ्जा॒तम॑ग्र॒तः ॥ 3
तस्मा᳚-द्य॒ज्ञा-थ्स॑र्व॒हुतः॑ । सम्भृ॑त-म्पृषदा॒ज्यम् । प॒शूग्स्ताग्श्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्या-न्ग्रा॒म्याश्च॒ ये । तस्मा᳚-द्य॒ज्ञा-थ्स॑र्व॒हुतः॑ । ऋच॒-स्सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑-दजायत ॥ 4
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ ।
यत्पुरु॑षं॒-व्यँ॑दधुः । क॒ति॒धा व्य॑कल्पयन्न् ।
मुख॒-ङ्किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते । ब्रा॒ह्म॒णो᳚-ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ॥ 5
प्रा॒णा-द्वा॒युर॑जायत । नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौ-स्सम॑वर्तत । प॒द्भ्या-म्भूमि॒ र्दिश॒-श्श्रोत्रा᳚त् । तथा॑ लो॒काग्ं अ॑कल्पयन्न् ॥ 6
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाभि॒वद॒न् यदास्ते᳚ । धा॒ता पु॒रस्ता॒-द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वा-न्प्र॒दिश॒श्चत॑स्रः । तमे॒वं-विँ॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ।
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् । ते ह॒ नाक॑-म्महि॒मान॑-स्सचन्ते । यत्र॒ पूर्वे॑ सा॒द्ध्या-स्सन्ति॑ दे॒वाः ॥ 7
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ पुरुषसूक्तग्ं शिरसे स्वाहा ॥
