त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वः । त्वग्ं शर्धो॒ मारु॑त-म्पृ॒क्ष ई॑शिषे ।
ष॒ष्ठा-स्स॑प्त॒मेषु॑ श्रयद्ध्वम् । स॒प्त॒मा अ॑ष्ट॒मेषु॑ श्रयद्ध्वम् ।
षो॒ड॒शा-स्स॑प्तद॒शेषु॑ श्रयद्ध्वम् । स॒प्त॒द॒शा अ॑ष्टाद॒शेषु॑ श्रयद्ध्वम् ।
ष॒ड्वि॒ग्ं॒शा स्स॑प्तवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । स॒प्त॒वि॒ग्ं॒शा अ॑ष्टावि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । अ॒ष्टा॒वि॒ग्ं॒शा ए॑कान्नत्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । ए॒का॒न्न॒त्रि॒ग्ं॒शा स्त्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । त्रि॒ग्ं॒शा ए॑कत्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । ए॒क॒त्रि॒ग्ं॒शा द्वा᳚त्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । द्वा॒त्रि॒ग्ं॒शा त्र॑यस्त्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । देवा᳚स्त्रिरेकादशा॒ स्त्रिस्त्र॑यस्त्रिग्ंशाः । उत्त॑रे भवत । उत्त॑र वर्त्मान॒ उत्त॑र सत्वानः । यत्का॑म इ॒द-ञ्जु॒होमि॑ । तन्मे॒ समृ॑द्ध्यताम् । व॒यग्ग्स्या॑म॒ पत॑यो रयी॒णाम् । भूर्भुव॒स्व॑स्स्वाहा᳚ । 4
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ त्वमग्ने त्वमग्ने शतरुद्रीयमित्यस्त्राय फट् ॥
