Serpent Deities (Nagas)

नाग कवचम् (सर्प भय और कालसर्प दोष नाशक)

(Naga Kavacham)

Also known as nagarajasya devasya kavacam sarvakamadam

An armour in which every guard is a named serpent, which makes it a roll-call of the nagas as much as a protection. Ananta takes the head and Sankarshana the throat; Karkotaka the two eyes, Kapila the ears, Nagayaksha the chest, Kalabhujangama the arms, Dhritarashtra the belly, Vajranaga the back; Ashvasena the vital points and Ashvatara the feet. Then it starts again on the compass and posts a different set: Vasuki in the east, Dhananjaya in the south-east, Takshaka in the south, Shankhapala in the south-west, Mahapadma in the west, Shankhanilaka in the north-west, Kambala in the north, Nagabhairava in the north-east, and Airavata above. Its seer is Mahadeva, and the seed it names is the tara.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ नाग कवचम् ॥
॥ विनियोगः ॥
ओं अस्य श्रीनागराजकवचस्य महादेव ऋषिः, अनुष्टुप् छन्दः, नागराजो देवता, तारा बीजं, शिवा शक्तिः, क्रोधं कीलकं, ममाभीष्ट सिद्धये जपे विनियोगः ।
॥ स्तोत्रम् ॥
नागराजस्य देवस्य कवचं सर्वकामदम् ।
ऋषिरस्य महादेवो गायत्री छन्द ईरिततः ॥ १ ॥
ताराबीजं शिवाशक्तिः क्रोधबीजस्तु कीलकः ।
देवता नागराजस्तु फणामणिविराजितः ॥ २ ॥
सर्वकामार्थ सिद्ध्यर्थे विनियोगः प्रकीर्तितः ।
अनन्तो मे शिरः पातु कण्ठं सङ्कर्षणस्तथा ॥ ३ ॥
कर्कोटको नेत्रयुग्मं कपिलः कर्णयुग्मकम् ।
वक्षःस्थलं नागयक्षः बाहू कालभुजङ्गमः ॥ ४ ॥
उदरं धृतराष्ट्रश्च वज्रनागस्तु पृष्ठकम् ।
मर्माङ्गमश्वसेनस्तु पादावश्वतरोऽवतु ॥ ५ ॥
वासुकिः पातु मां प्राच्ये आग्नेयां तु धनञ्जयः ।
तक्षको दक्षिणे पातु नैरृत्यां शङ्खपालकः ॥ ६ ॥
महापद्मः प्रतीच्यां तु वायव्यां शङ्खनीलकः ।
उत्तरे कम्बलः पातु ईशान्यां नागभैरवः ॥ ७ ॥
ऊर्ध्वं चैरावतोऽधस्तात् नागभेतालनायकः ।
सदा सर्वत्र मां पातु नागलोकाधिनायकाः ॥ ८ ॥
॥ फलश्रुति ॥
इत्येतत्परमं पुण्यं कवचं सर्वकामदम् ।
यः पठेच्छृणुयाद्वापि मुच्यते सर्वकिल्बिषैः ॥ ९ ॥
न तस्य सर्पतो भीतिः न च विषं प्रबाधते ।
सदा जयमवाप्नोति सङ्ग्रामे चापराजितः ॥ १० ॥
॥ इति नाग कवचम् सम्पूर्णम् ॥

Explore More