१. सूर्य (Sun)
गुर्विन्द्वोश्च कुजस्य मित्रमरिखत्रिस्थश्शुभः प्राङ्मुखः ।
शत्रुर्भार्गवसौरयोः प्रियगुडः कालिङ्गदेशाधिपो
मध्ये वर्तुलमण्डले स्थितियुतः कुर्यात् सदामङ्गलम् ॥ १॥
२. चन्द्र (Moon)
चाग्नेये चतुरश्रगोऽपरमुखो गौर्यर्चया तर्पितः ।
षट्सप्ताग्निदशाद्यशोभनफलोऽशत्रुर्बुधार्कप्रियः
सौम्यो यामुन देशपर्णजसमित् कुर्यात् सदा मङ्गलम् ॥ २॥
३. मङ्गल (Mars)
प्रीतो वृश्चिकमेषयोरधिपतिर्गुर्वर्क चन्द्रप्रियः ।
ज्ञारिः षट्त्रिशुभप्रदश्च वसुधादाता गुहाधीश्वरो
भारद्वाजकुलोद्भवोऽरुणरुचिः कुर्यात् सदामङ्गलम् ॥ ३॥
४. बुध (Mercury)
बाणेशानगतस्सुहृद्रविसितो वैरी कृतानुष्णरुक् ।
कन्यायुग्मपतिर्दशाष्टम चतुष्षण्णेत्रगश्शोभनो
विष्ण्वाराधन तर्पितो मगधपः कुर्यात् सदा मङ्गलम् ॥ ४॥
५. गुरु / बृहस्पति (Jupiter)
पीतोऽश्वत्थसमिच्च सिन्ध्वधिपतिश्चापर्क्षमीनाधिपः ।
सूर्येन्दुक्षितिजप्रियस्सित बुधारातिस्समो भानुजे
सप्तापत्यतपोर्थगश्शुभकरः कुर्यात् सदामङ्गलम् ॥ ५॥
६. शुक्र (Venus)
काम्बोजाधिपतिस्तुलाववृषभपश्चौदुम्बरैस्तर्पितः ।
सौम्यायः सुहृदम्बिका स्तुतिवशात्प्रीतोऽर्कचन्द्राहितो
नारी भोगकरश्शुभो भृगुसुतः कुर्यात् सदा मङ्गलम् ॥ ६॥
७. शनि (Saturn)
नाथः कुम्भमृगर्क्षयोः प्रियसुहृच्छुक्रज्ञयोर्गृध्रगः ।
षट्त्रिस्थश्शुभदोऽशुभो तनुगतिश्चापाकृतौ मण्डले
सन्तिष्ठन् चिरजीवितादि फलदः कुर्यात् सदा मङ्गलम् ॥ ७॥
८. राहु (Rahu)
याम्याशाभिमुखश्च चन्द्ररविरुत् पैठीनसिः क्रौर्यवान् ।
षट्त्रिस्थश्शुभकृत्करालवदनः प्रीतश्च दूर्वाहुतौ
दुर्गापूजनतः प्रसन्नहृदयः कुर्यात् सदा मङ्गलम् ॥ ८॥
९. केतु (Ketu)
चित्राङ्क ध्वजलाञ्छनो हि भगवान् याम्याननश्शोभनः ।
सन्तुष्टो गणनाथ पूजनवशात् गङ्गादितीर्थप्रदः
षट्त्रिस्थश्शुभकृच्च चित्रिततनुः कुर्यात् सदा मङ्गलम् ॥ ९॥
