Navagraha

नवग्रह ध्यानम् (तन्त्रोक्त नवग्रह स्वरूप)

(Navagraha Dhyanam Tantrokta Navagraha Svarupa)

Also known as tantrokta navagraha dhyanam · atha suryasya dhyanam tripurasarvasve

Nine meditations on the planets, and the point of the collection is that each one is quoted from a different book, with the source named in its own heading: the Sun's from the Tripurasarvasva, Mars's from the Agamamrtamanjari, Mercury's and Jupiter's from the Bhairava Tantra, Venus's from the Kubjikasarvasva, Saturn's from the Shubhada Agamamrta. It is an anthology rather than a composition. The images it gathers are not the puranic ones: Mercury rides a swan, two-armed, with a sword and a noose; Jupiter is on an elephant holding a spear and a trident; Venus is two-eyed, which is worth noticing in a god usually described as having lost an eye, and sits on a krauncha bird. Every verse places the planet in the lotus of the heart rather than in the sky, which is what makes these meditations rather than descriptions.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्रीगणेशाय नमः ॥
॥ नवग्रह ध्यानम् ॥
१. अथ सूर्यस्य ध्यानं - (त्रिपुरासर्वस्वे)
प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशम् ।
सप्ताश्वगं सद्ध्वजहस्तमाद्यं देवं भजेऽहं मिहिरं हृदब्जे ॥ १॥
२. अथ चन्द्रस्य ध्यानं - (निःसृतमागमे)
शङ्खप्रभमेणप्रियं शशाङ्कमीशानमौलिस्थितमीड्यवृत्तम् ।
तमीपतिं नीरजयुग्महस्तं ध्याये हृदब्जे शशिनं ग्रहेशम् ॥ २॥
३. अथ भौमस्य ध्यानं - (आगमामृतमञ्जर्याम्)
प्रतप्तगाङ्गेयनिभं ग्रहेशं सिंहासनस्थं कमलासिहस्तम् ।
सुरासुरैः पूजितपादपद्मं भौमं दयालुं हृदये स्मरामि ॥ ३॥
४. अथ सौम्यस्य (बुध) ध्यानं - (भैरवतन्त्रे)
सोमात्मजं हंसगतं द्विबाहुं शङ्खेन्दुरूपं ह्यसिपाशहस्तम् ।
दयानिधिं भूषणभूषिताङ्गं बुधं स्मरे मानसपङ्कजेऽहम् ॥ ४॥
५. अथ जीवस्य (गुरु) ध्यानं - (भैरवतन्त्रे)
तेजोमयं शक्तित्रिशूलहस्तं सुरेन्द्रज्येष्ठैः स्तुतपादपद्मम् ।
मेधानिधिं हस्तिगतं द्विबाहुं गुरुं स्मरे मानसपङ्कजेऽहम् ॥ ५॥
६. अथ शुक्रस्य ध्यानं - (कुब्जिकासर्वस्वे)
सन्तप्तकाञ्चननिभं द्विभुजं दयालुं
पीताम्बरं धृतसरोरुहद्वन्द्वशूलम् ।
क्रौञ्चासनं ह्यसुरसेवितपादपद्मं
शुक्रं स्मरे द्विनयनं हृदि पङ्कजेऽहम् ॥ ६॥
७. अथ शनेर्ध्यानं - (शुभदमागमामृते)
नीलाञ्जनाभं मिहिरेष्टपुत्रं ग्रहेश्वरं पाशभुजङ्गपाणिम् ।
सुरासुराणां भयदं द्विबाहुं शनिं स्मरे मानसपङ्कजेऽहम् ॥ ७॥
८. अथ सैंहिकेयस्य (राहु) ध्यानं - (वामकेश्वर तन्त्रे)
शीतांशुमित्रान्तकमीड्यरूपं घोरं च वैडुर्यनिभं विबाहुम् ।
त्रैलोक्यरक्षाप्रदंमिष्टदं च राहुं ग्रहेन्द्रं हृदये स्मरामि ॥ ८॥
९. अथ केतोश्च ध्यानं - (तन्त्रसागरे)
लाङ्गुलयुक्तं भयदं जनानां कृष्णाम्बुभृत्सन्निभमेकवीरम् ।
कृष्णाम्बरं शक्तित्रिशूलहस्तं केतुं भजे मानसपङ्कजेऽहम् ॥ ९॥
॥ इति नवग्रहध्यानं सम्पूर्णम् ॥

Explore More