Lord Hanuman

पञ्चमुखी हनुमान कवचम्

(Panchamukhi Hanuman Kavacham)

Traditional

Also known as atha sripancamukhahanumatkavacaprarambhah

Panchamukhi Hanuman Kavacham is a Sanskrit protective hymn dedicated to the five-faced form of Lord Hanuman. The five faces are those of Hanuman (east), Narasimha (south), Garuda (west), Varaha (north), and Hayagriva (upward), each facing a cardinal direction to provide complete cosmic protection. This kavacham invokes each face to guard different parts of the body and the devotee's entire being from negative forces and dangers.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

#of 77
॥ श्रीगणेशाय नमः ॥
॥ श्रीउमामहेश्वराभ्यां नमः ॥
॥ श्रीसीतारामचन्द्राभ्यां नमः ॥
॥ श्रीपञ्चवदनायाञ्जनेयाय नमः ॥
अथ श्रीपञ्चमुखहनुमत्कवचप्रारम्भः ॥
श्रीपार्वत्युवाच।
सदाशिव वरस्वामिञ्ज्ञानद प्रियकारकः ।
कवचादि मया सर्वं देवानां संश्रुतं प्रिय ॥ १॥
इदानीं श्रोतुमिच्छामि कवचं करुणानिधे ।
वायुसूनोर्वरं येन नान्यदन्वेषितं भवेत् ।
साधकानां च सर्वस्वं हनुमत्प्रीति वर्द्धनम् ॥ २॥
श्रीशिव उवाच।
देवेशि दीर्घनयने दीक्षादीप्तकलेवरे ।
मां पृच्छसि वरारोहे न कस्यापि मयोदितम् ॥ ३॥
कथं वाच्यं हनुमतः कवचं कल्पपादपम् ।
स्रीरूपा त्वमिदं नानाकूटमण्डितविग्रहम् ॥ ४॥
गह्वरं गुरुगम्यं च यत्र कुत्र वदिष्यसि ।
तेन प्रत्युत पापानि जायन्ते गजगामिनि ॥ ५॥
अतएव महेशानि नो वाच्यं कवचं प्रिये ॥ ६॥
श्रीपार्वत्युवाच।
वदान्यस्य वचोनेदं नादेयं जगतीतले ।
स्वं वदान्यावधिः प्राणनाथो मे प्रियकृत्सदा ॥ ७॥
मह्यं च किं न दत्तं ते तदिदानीं वदाम्यहम ।
गणपं शाक्त सौरे च शैवं वैष्णवमुत्तमम् ॥ ८॥
मन्त्रयन्त्रादिजालं हि मह्यं सामान्यतस्त्वया ।
दत्तं विशेषतो यद्यत्तत्सर्वं कथयामि ते ॥ ९॥
श्रीराम तारको मन्त्रः कोदण्डस्यापि मे प्रियः ।
नृहरेः सामराजो हि कालिकाद्याः प्रियंवद ॥ १०॥
दशाविद्याविशेषेण षोडशीमन्त्रनायिकाः ।
दक्षिणामूर्तिसंज्ञोऽन्यो मन्त्रराजो धरापते ॥ ११॥
सहस्रार्जुनकस्यापि मन्त्रा येऽन्ये हनूमतः ।
ये ते ह्यदेया देवेश तेऽपि मह्यं समर्पिताः ॥ १२॥
किं बहूक्तेन गिरिश प्रेमयान्त्रितचेतसा ।
अर्धाङ्गमपि मह्यं ते दत्तं किं ते वदाम्यहम् ।
स्त्रीरूपं मम जीवेश पूर्वं तु न विचारितम् ॥ १३॥
श्रीशिव उवाच।
सत्यं सत्यं वरारोहे सर्वं दत्तं मया तव ।
परं तु गिरिजे तुभ्यं कथ्यते श्रुणु साम्प्रतम् ॥ १४॥
कलौ पाखण्डबहुला नानावेषधरा नराः ।
ज्ञानहीना लुब्धकाश्च वर्णाश्रमबहिष्कृताः ॥ १५॥
वैष्णवत्वेन विख्याताः शैवत्वेन वरानन ।
शाक्तत्वेन च देवेशि सौरत्वेनेतरे जनाः ॥ १६॥
गाणपत्वेन गिरिजे शास्त्रज्ञानबहिष्कृताः ।
गुरुत्वेन समाख्याता विचरिष्यन्ति भूतले ॥ १७॥
ते शिष्यसङ्ग्रहं कर्तुमुद्युक्ता यत्र कुत्राचित् ।
मन्त्राद्युच्चारणे तेषां नास्ति सामर्थ्यमम्बिके ॥ १८॥
तच्छिष्याणां च गिरिजे तथापि जगतीतले ।
पठन्ति पाठयिष्यति विप्रद्वेषपराः सदा ॥ १९॥
द्विजद्वेषपराणां हि नरके पतनं ध्रुवम् ।
प्रकृतं वच्मि गिरिजे यन्मया पूर्वमीरितम् ॥ २०॥
नानारूपमिदं नानाकूटमण्डितविग्रहम् ।
तत्रोत्तरं महेशाने शृणु यत्नेन साम्प्रतम् ॥ २१॥
तुभ्यं मया यदा देवि वक्तव्यं कवचं शुभम् ।
नानाकूटमयं पश्चात्त्वयाऽपि प्रेमतः प्रियम् ॥ २२॥
वक्तव्यं कत्रचित्तत्तु भुवने विचरिष्यति ।
विश्वान्तःपातिनां भद्रे यदि पुण्यवतां सताम् ॥ २३॥
सत्सम्प्रदायशुद्धानां दीक्षामन्त्रवतां प्रिये ।
ब्राह्मणाः क्षत्रिया वैश्या विशेषेण वरानने ॥ २४॥
उचारणे समर्थानां शास्त्रनिष्ठावतां सदा ।
हस्तागतं भवेद्भद्रे तदा ते पुण्यमुत्तमम् ॥ २५॥
अन्यथा शूद्रजातीनां पूर्वोक्तानां महेश्वरि ।
मुखशुद्धिविहीनानां दाम्भिकानां सुरेश्वरि ॥ २६॥
यदा हस्तगतं तत्स्यात्तदा पापं महत्तव ।
तस्माद्विचार्यदेवेशि ह्यधिकारिणमम्बिके ॥ २७॥
वक्तव्यं नात्र सन्देहो ह्यन्यथा निरयं व्रजेत् ।
किं कर्तव्यं मया तुभ्यमुच्यते प्रेमतः प्रिये ।
त्वयापीदं विशेषेण गेपनीयं स्वयोनिवत् ॥ २८॥
ॐ श्री पञ्चवदनायाञ्जनेयाय नमः । ॐ अस्य श्री
पञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा ऋषिः ।
गायत्रीछन्दः । पञ्चमुखविराट् हनुमान्देवता । ह्रीं बीजम् ।
श्रीं शक्तिः । क्रौं कीलकम् । क्रूं कवचम् । क्रैं अस्त्राय फट् ।
इति दिग्बन्धः । श्री गरुड उवाच।
अथ ध्यानं प्रवक्ष्यामि शृणुसर्वाङ्गसुन्दरि ।
यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥ १॥
पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् ।
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥ २॥
पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् ।
दन्ष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥ ३॥
अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् ।
अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥ ४॥
पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् ॥
सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥ ५॥
उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् ।
पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥ ६॥
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् ।
येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम् ॥ ७॥
जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् ।
ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम् ॥ ८॥
खड्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम् ।
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥ ९॥
भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुङ्गवम् ।
एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥ १०॥
प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ११॥
सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम् ।
पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं
शशाङ्कशिखरं कपिराजवर्यम ।
पीताम्बरादिमुकुटैरूपशोभिताङ्गं
पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ॥ १२॥
मर्कटेशं महोत्साहं सर्वशत्रुहरं परम् ।
शत्रु संहर मां रक्ष श्रीमन्नापदमुद्धर ॥ १३॥
ॐ हरिमर्कट मर्कट मन्त्रमिदं
परिलिख्यति लिख्यति वामतले ।
यदि नश्यति नश्यति शत्रुकुलं
यदि मुञ्चति मुञ्चति वामलता ॥ १४॥
ॐ हरिमर्कटाय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय पूर्वकपिमुखाय
सकलशत्रुसंहारकाय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय
नरसिंहाय सकलभूतप्रमथनाय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय पश्चिममुखाय गरुडाननाय
सकलविषहराय स्वाहा ।
ॐ नमो भगवते पञ्चवदनायोत्तरमुखायादिवराहाय
सकलसम्पत्कराय स्वाहा ।
ॐ नमो भगवते पञ्चवदनायोर्ध्वमुखाय हयग्रीवाय
सकलजनवशङ्कराय स्वाहा ।
ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य श्रीरामचन्द्र
ऋषिः । अनुष्टुप्छन्दः । पञ्चमुखवीरहनुमान् देवता ।
हनुमानिति बीजम् । वायुपुत्र इति शक्तिः । अञ्जनासुत इति कीलकम् ।
श्रीरामदूतहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ।
इति ऋष्यादिकं विन्यसेत् ॥
ॐ अञ्जनासुताय अङ्गुष्ठाभ्यां नमः ।
ॐ रुद्रमूर्तये तर्जनीभ्यां नमः ।
ॐ वायुपुत्राय मध्यमाभ्यां नमः ।
ॐ अग्निगर्भाय अनामिकाभ्यां नमः ।
ॐ रामदूताय कनिष्ठिकाभ्यां नमः ।
ॐ पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ॥
ॐ अञ्जनासुताय हृदयाय नमः ।
ॐ रुद्रमूर्तये शिरसे स्वाहा ।
ॐ वायुपुत्राय शिखायै वषट् ।
ॐ अग्निगर्भाय कवचाय हुम् ।
ॐ रामदूताय नेत्रत्रयाय वौषट् ।
ॐ पञ्चमुखहनुमते अस्त्राय फट् ।
पञ्चमुखहनुमते स्वाहा ।
इति दिग्बन्धः ॥
अथ ध्यानम् ।
वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं
दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा ।
हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रिं हलं
खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ।
अथ मन्त्रः ।
ॐ श्रीरामदूतायाञ्जनेयाय वायुपुत्राय महाबलपराक्रमाय
सीतादुःखनिवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय
फाल्गुनसखाय कोलाहलसकलब्रह्माण्डविश्वरूपाय
सप्तसमुद्रनिर्लङ्घनाय पिङ्गलनयनायामितविक्रमाय
सूर्यबिम्बफलसेवनाय दुष्टनिवारणाय दृष्टिनिरालङ्कृताय
सञ्जीविनीसञ्जीविताङ्गदलक्ष्मणमहाकपिसैन्यप्राणदाय
दशकण्ठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहित-
रामवरप्रदाय षट्प्रयोगागमपञ्चमुखवीरहनुमन्मन्त्रजपे विनियोगः ।
ॐ हरिमर्कटमर्कटाय बं बं बं बं बं वौषट् स्वाहा ।
ॐ हरिमर्कटमर्कटाय फं फं फं फं फं फट् स्वाहा ।
ॐ हरिमर्कटमर्कटाय खें खें खें खें खें मारणाय स्वाहा ।
ॐ हरिमर्कटमर्कटाय लुं लुं लुं लुं लुं आकर्षितसकलसम्पत्कराय स्वाहा ।
ॐ हरिमर्कटमर्कटाय धं धं धं धं धं शत्रुस्तम्भनाय स्वाहा ।
ॐ टं टं टं टं टं कूर्ममूर्तये पञ्चमुखवीरहनुमते
परयन्त्रपरतन्त्रोच्चाटनाय स्वाहा ।
ॐ कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं
तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं
ळं क्षं स्वाहा ।
इति दिग्बन्धः ।
ॐ पूर्वकपिमुखाय पञ्चमुखहनुमते टं टं टं टं टं
सकलशत्रुसंहरणाय स्वाहा ।
ॐ दक्षिणमुखाय पञ्चमुखहनुमते करालवदनाय नरसिंहाय
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा ।
ॐ पश्चिममुखाय गरुडाननाय पञ्चमुखहनुमते मं मं मं मं मं
सकलविषहराय स्वाहा ।
ॐ उत्तरमुखायादिवराहाय लं लं लं लं लं नृसिंहाय नीलकण्ठमूर्तये
पञ्चमुखहनुमते स्वाहा ।
ॐ ऊर्ध्वमुखाय हयग्रीवाय रुं रुं रुं रुं रुं रुद्रमूर्तये
सकलप्रयोजननिर्वाहकाय स्वाहा ।
ॐ अञ्जनासुताय वायुपुत्राय महाबलाय सीताशोकनिवारणाय
श्रीरामचन्द्रकृपापादुकाय महावीर्यप्रमथनाय ब्रह्माण्डनाथाय
कामदाय पञ्चमुखवीरहनुमते स्वाहा ।
भूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिन्यन्तरिक्षग्रह-
परयन्त्रपरतन्त्रोच्चटनाय स्वाहा ।
सकलप्रयोजननिर्वाहकाय पञ्चमुखवीरहनुमते
श्रीरामचन्द्रवरप्रसादाय जं जं जं जं जं स्वाहा ।
इदं कवचं पठित्वा तु महाकवचं पठेन्नरः ।
एकवारं जपेत्स्तोत्रं सर्वशत्रुनिवारणम् ॥ १५॥
द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् ।
त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम् ॥ १६॥
चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ।
पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम् ॥ १७॥
षड्वारं च पठेन्नित्यं सर्वदेववशङ्करम् ।
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ॥ १८॥
अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् ।
नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ॥ १९॥
दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् ।
रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्ध्रुवम् ॥ २०॥
निर्बलो रोगयुक्तश्च महाव्याध्यादिपीडितः ।
कवचस्मरणेनैव महाबलमवाप्नुयात् ॥ २१॥
॥ इति श्रीसुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं
श्रीपञ्चमुखहनुमत्कवचं सम्पूर्णम् ॥

Also Chanted For

Peace & Protection

Explore More