The Pitrus (Ancestors)

पितृ स्तोत्रं 2 (गरुड पुराणम्)

(Pitri Stotram (Garuda Puranam))

From Garuda Puranam

Found within the Garuda Purana, this sacred hymn is dedicated to the Pitrus, the divine ancestors who bestow blessings and fulfill desires. The stotra acknowledges their luminous nature, omniscience, and spiritual authority as guides to sages and celestial beings. Reciting this prayer with devotion is considered a powerful way to seek ancestral blessings, resolve pitru dosha, and ensure the spiritual liberation and peace of departed souls. It serves as a medium to express profound gratitude to one’s lineage, fostering harmony, protection, and prosperity within the family through the grace of the ancestral spirits.

रुचिरुवाच ।

अर्चितानाममूर्तानां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ 1 ॥
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षीणां तथान्येषां तान्नमस्यामि कामदान् ॥ 2 ॥
मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा ।
तान्नमस्याम्यहं सर्वान् पितॄनप्युदधावपि ॥ 3 ॥
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा ।
द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥ 4 ॥
देवर्षीणां जनितॄंश्च सर्वलोक नमस्कृतान् ।
अक्षय्यस्य सदा दातॄन् नमस्येहं कृताञ्जलिः ॥ 5 ॥
प्रजापतेः कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥ 6 ॥
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥ 7 ॥
सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगतामहम् ॥ 8 ॥
अग्निरूपांस्तथैवान्यान् नमस्यामि पितॄनहम् ।
अग्निसोममयं विश्वं यत एतदशेषतः ॥ 9 ॥
ये च तेजसि ये चैते सोमसूर्याग्निमूर्तयः ।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥ 10 ॥
तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः ।
नमो नमो नमस्तेऽस्तु प्रसीदन्तु स्वधाभुजः ॥ 11 ॥
इति श्री गरुडपुराणे ऊननवतितमोऽध्याये रुचिकृत द्वितीय पितृ स्तोत्रम् ।

Explore More