रुचिरुवाच ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ 1 ॥
सप्तर्षीणां तथान्येषां तान्नमस्यामि कामदान् ॥ 2 ॥
तान्नमस्याम्यहं सर्वान् पितॄनप्युदधावपि ॥ 3 ॥
द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥ 4 ॥
अक्षय्यस्य सदा दातॄन् नमस्येहं कृताञ्जलिः ॥ 5 ॥
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥ 6 ॥
स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥ 7 ॥
नमस्यामि तथा सोमं पितरं जगतामहम् ॥ 8 ॥
अग्निसोममयं विश्वं यत एतदशेषतः ॥ 9 ॥
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥ 10 ॥
नमो नमो नमस्तेऽस्तु प्रसीदन्तु स्वधाभुजः ॥ 11 ॥
