Lord Rama

श्री राम रक्षा स्तोत्रम्

(Shri Rama Raksha Stotram)

Budha Kaushika

Composed by the sage Budha Kaushika, the Shri Rama Raksha Stotram is a powerful Vedic prayer dedicated to Lord Rama. It serves as a spiritual armor, invoking divine protection against physical, mental, and spiritual adversaries. The stotra highlights the virtues of Rama, describing his divine form and his role as the protector of his devotees. Chanting this hymn with devotion is believed to grant courage, mental peace, and prosperity, effectively warding off negativity. It is widely recited during various rituals and daily practices to seek the grace and shield of the Maryada Purushottam.

ॐ अस्य श्री रामरक्षा स्तोत्रमन्त्रस्य
बुधकौशिक ऋषिः
श्री सीताराम चन्द्रोदेवता
अनुष्टुप् छन्दः
सीता शक्तिः
श्रीमद् हनुमान् कीलकम्
श्रीरामचन्द्र प्रीत्यर्थे रामरक्षा स्तोत्रजपे विनियोगः ॥
ध्यानम्
ध्यायेदाजानुबाहुं धृतशर धनुषं बद्ध पद्मासनस्थं
पीतं वासोवसानं नवकमल दलस्पर्धि नेत्रं प्रसन्नम् ।
वामाङ्कारूढ सीतामुख कमलमिलल्लोचनं नीरदाभं
नानालङ्कार दीप्तं दधतमुरु जटामण्डलं रामचन्द्रम् ॥
स्तोत्रम्
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातक नाशनम् ॥ 1 ॥
ध्यात्वा नीलोत्पल श्यामं रामं राजीवलोचनम् ।
जानकी लक्ष्मणोपेतं जटामुकुट मण्डितम् ॥ 2 ॥
सासितूण धनुर्बाण पाणिं नक्तं चरान्तकम् ।
स्वलीलया जगत्त्रातु-माविर्भूत-मजं विभुम् ॥ 3 ॥
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् ।
शिरो मे राघवः पातु फालं (भालं) दशरथात्मजः ॥ 4 ॥
कौसल्येयो दृशौपातु विश्वामित्रप्रियः श्रुती ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ 5 ॥
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ 6 ॥
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥ 7 ॥
सुग्रीवेशः कटिं पातु सक्थिनी हनुमत्-प्रभुः ।
ऊरू रघूत्तमः पातु रक्षःकुल विनाशकृत् ॥ 8 ॥
जानुनी सेतुकृत्-पातु जङ्घे दशमुखान्तकः ।
पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥ 9 ॥
एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ।
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ 10 ॥
पाताल-भूतल-व्योम-चारिण-श्छद्म-चारिणः ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ 11 ॥
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।
नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥ 12 ॥
जगज्जैत्रैक मन्त्रेण रामनाम्-नाभिरक्षितम् ।
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥ 13 ॥
वज्रपञ्जर नामेदं यो रामकवचं स्मरेत् ।
अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥ 14 ॥
आदिष्टवान्-यथा स्वप्ने रामरक्षामिमां हरः ।
तथा लिखितवान्-प्रातः प्रबुद्धो बुधकौशिकः ॥ 15 ॥
आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।
अभिराम-स्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥ 16 ॥
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीक विशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ 17 ॥
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ 18 ॥
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षःकुल निहन्तारौ त्रायेतां नो रघूत्तमौ ॥ 19 ॥
आत्त सज्य धनुषा-विषुस्पृषा-वक्षयाशुग निषङ्ग सङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥ 20 ॥
सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन् मनोरथान्नश्च (मनोरथोऽस्माकं) रामः पातु स लक्ष्मणः ॥ 21 ॥
रामो दाशरथि श्शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥ 22 ॥
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमा-नप्रमेयपराक्रमः ॥ 23 ॥
इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥ 24 ॥
रामं दूर्वादल श्यामं पद्माक्षं पीतवाससम् ।
स्तुवन्ति नामभि-र्दिव्यैर्न ते संसारिणो नराः ॥ 25 ॥
रामं लक्ष्मण पूर्वजं रघुवरं सीतापतिं सुन्दरम्
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिम्
वन्दे लोकाभिरामं रघुकुल तिलकं राघवं रावणारिम् ॥ 26 ॥
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥ 27 ॥
श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम ॥ 28 ॥
श्रीराम चन्द्र चरणौ मनसा स्मरामि
श्रीराम चन्द्र चरणौ वचसा गृह्णामि । [गृणामि]
श्रीराम चन्द्र चरणौ शिरसा नमामि
श्रीराम चन्द्र चरणौ शरणं प्रपद्ये ॥ 29 ॥
माता रामो मत्-पिता रामचन्द्रः
स्वामी रामो मत्-सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालुः
नान्यं जाने नैव जाने न जाने ॥ 30 ॥
दक्षिणे लक्ष्मणो यस्य वामे च (तु) जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥ 31 ॥
लोकाभिरामं रणरङ्गधीरं
राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरूपं करुणाकरं तं
श्रीरामचन्द्रं शरणं प्रपद्ये ॥ 32 ॥
मनोजवं मारुत तुल्य वेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथ मुख्यं
श्रीरामदूतं शरणं प्रपद्ये ॥ 33 ॥
कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।
आरुह्य कविताशाखां वन्दे वाल्मीकि कोकिलम् ॥ 34 ॥
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयोभूयो नमाम्यहम् ॥ 35 ॥
भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।
तर्जनं यमदूतानां राम रामेति गर्जनम् ॥ 36 ॥
रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ 37 ॥
श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ 38 ॥
इति श्रीबुधकौशिकमुनि विरचितं श्रीराम रक्षास्तोत्रं सम्पूर्णम् । श्रीराम जयराम जयजयराम ।

Explore More