Lord Prajapati

सानुस्वार प्रश्न (सुन्नाल पन्नम्)

(Sanusvara Prashna (Sunnal Pannam))

From Taittiriya Brahmana

Also known as krsnayajurvedantaittariya brahmana

The Sanusvara Prashna, extracted from the third kanda of the Taittiriya Brahmana of the Krishna Yajurveda, is a profound liturgical text detailing the Purushamedha sacrifice. It symbolically identifies various strata of society and human conditions as offerings to the Divine. By chanting these verses, a practitioner acknowledges the cosmic interconnection of all life forms and roles within the universal order. It serves as a spiritual contemplation on the nature of duty, social responsibility, and the omnipresence of the Divine across all human experiences, fostering a sense of universal harmony, humility, and spiritual realignment with the cosmic law.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

[कृष्णयजुर्वेद-न्तैत्तरीय ब्राह्मण 3-4-1-1]
श्री गुरुभ्यो नमः । हरिः ओम् ।
ब्रह्म॑णे ब्राह्म॒णमाल॑भते । क्ष॒त्त्राय॑ राज॒न्यम्᳚ ।
म॒रुद्भ्यो॒ वैश्यम्᳚ । तप॑से शू॒द्रम् ।
तम॑से॒ तस्क॑रम् । नार॑काय वीर॒हणम्᳚ ।
पा॒प्मने᳚ क्ली॒बम् । आ॒क्र॒याया॑यो॒गूम् ।
कामा॑य पुग्ग्‍श्च॒लूम् । अति॑क्रुष्टाय माग॒धम् ॥ 1 ॥
गी॒ताय॑ सू॒तम् । नृ॒त्ताय॑ शैलू॒षम् ।
धर्मा॑य सभाच॒रम् । न॒र्माय॑ रे॒भम् ।
नरि॑ष्ठायै भीम॒लम् । हसा॑य॒ कारिम्᳚ ।
आ॒न॒न्दाय॑ स्त्रीष॒खम् । प्र॒मुदे॑ कुमारीपु॒त्रम् ।
मे॒धायै॑ रथका॒रम् । धैर्या॑य॒ तक्षा॑णम् ॥ 2 ॥
श्रमा॑य कौला॒लम् । मा॒यायै॑ कार्मा॒रम् ।
रू॒पाय॑ मणिका॒रम् । शुभे॑ व॒पम् ।
श॒र॒व्या॑या इषुका॒रम् । हे॒त्यै ध॑न्वका॒रम् ।
कर्म॑णे ज्याका॒रम् । दि॒ष्टाय॑ रज्जुस॒र्गम् ।
मृ॒त्यवे॑ मृग॒युम् । अन्त॑काय श्व॒नितम्᳚ ॥ 3 ॥
स॒न्धये॑ जा॒रम् । गे॒हायो॑पप॒तिम् ।
निर्-ऋ॑त्यै परिवि॒त्तम् । आर्त्यै॑ परिविविदा॒नम् ।
अरा᳚ध्यै दिधिषू॒पतिम्᳚ । प॒वित्रा॑य भि॒षजम्᳚ ।
प्र॒ज्ञाना॑य नक्षत्रद॒र्​शम् । निष्कृ॑त्यै पेशस्का॒रीम् ।
बला॑योप॒दाम् । वर्णा॑यानू॒रुधम्᳚ ॥ 4 ॥
न॒दीभ्यः॑ पौञ्जि॒ष्टम् । ऋ॒क्षीका᳚भ्यो॒ नैषा॑दम् ।
पु॒रु॒ष॒व्या॒घ्राय॑ दु॒र्मदम्᳚ । प्र॒युद्भ्य॒ उन्म॑त्तम् ।
ग॒न्ध॒र्वा॒प्स॒राभ्यो॒ व्रात्यम्᳚ । स॒र्प॒दे॒व॒ज॒नेभ्यो-ऽप्र॑तिपदम् ।
अवे᳚भ्यः कित॒वम् । इ॒र्यता॑या॒ अकि॑तवम् ।
पि॒शा॒चेभ्यो॑ बिदलका॒रम् । या॒तु॒धाने᳚भ्यः कण्टकका॒रम् ॥ 5 ॥
उ॒थ्सा॒देभ्यः॑ कु॒ब्जम् । प्र॒मुदे॑ वाम॒नम् ।
द्वा॒र्भ्य-स्स्रा॒मम् । स्वप्ना॑या॒न्धम् ।
अध॑र्माय बधि॒रम् । स॒ञ्ज्ञाना॑य स्मरका॒रीम् ।
प्र॒का॒मोद्या॑योप॒सदम्᳚ । आ॒शि॒क्षायै᳚ प्र॒श्निनम्᳚ ।
उ॒प॒शि॒क्षाया॑ अभिप्र॒श्निनम्᳚ । म॒र्यादा॑यै प्रश्नविवा॒कम् ॥ 6 ॥
ऋत्यै᳚ स्ते॒नहृ॑दयम् । वैर॑हत्याय॒ पिशु॑नम् ।
विवि॑त्त्यै क्ष॒त्तारम्᳚ । औप॑द्रष्टाय सङ्ग्रही॒तारम्᳚ ।
बला॑यानुच॒रम् । भू॒म्ने प॑रिष्क॒न्दम् ।
प्रि॒याय॑ प्रियवा॒दिनम्᳚ । अरि॑ष्ट्या अश्वसा॒दम् ।
मेधा॑य वासः पल्पू॒लीम् । प्र॒का॒माय॑ रजयि॒त्रीम् ॥ 7 ॥
भायै॑ दार्वाहा॒रम् । प्र॒भाया॑ आग्ने॒न्धम् ।
नाक॑स्य पृ॒ष्ठाया॑भिषे॒क्तारम्᳚ ।
ब्र॒ध्नस्य॑ वि॒ष्टपा॑य पात्रनिर्णे॒गम् ।
दे॒व॒लो॒काय॑ पेशि॒तारम्᳚ । म॒नु॒ष्य॒लो॒काय॑ प्रकरि॒तारम्᳚ ।
सर्वे᳚भ्यो लो॒केभ्य॑ उपसे॒क्तारम्᳚ ।
अव॑र्त्यै व॒धायो॑पमन्थि॒तारम्᳚ । सु॒व॒र्गाय॑ लो॒काय॑ भाग॒दुघम्᳚ ।
वर्​षि॑ष्ठाय॒ नाका॑य परिवे॒ष्टारम्᳚ ॥ 8 ॥
अर्मे᳚भ्यो हस्ति॒पम् । ज॒वाया᳚श्व॒पम् ।
पुष्ट्यै॑ गोपा॒लम् । तेज॑से-ऽजपा॒लम् ।
वी॒र्या॑याविपा॒लम् । इरा॑यै की॒नाशम्᳚ ।
की॒लाला॑य सुराका॒रम् । भ॒द्राय॑ गृह॒पम् ।
श्रेय॑से वित्त॒धम् । अध्य॑क्षायानुक्ष॒त्तारम्᳚ ॥ 9 ॥
म॒न्यवे॑-ऽयस्ता॒पम् । क्रोधा॑य निस॒रम् ।
शोका॑याभिस॒रम् । उ॒त्कू॒ल॒वि॒कू॒लाभ्या᳚-न्त्रि॒स्थिनम्᳚ ।
योगा॑य यो॒क्तारम्᳚ । क्षेमा॑य विमो॒क्तारम्᳚ ।
वपु॑षे मानस्कृ॒तम् । शीला॑याञ्जनीका॒रम् ।
निर्-ऋ॑त्यै कोशका॒रीम् । य॒माया॒सूम् ॥ 10 ॥
य॒म्यै॑ यम॒सूम् । अथ॑र्व॒भ्यो-ऽव॑तोकाम् ।
सं॒​वँ॒थ्स॒राय॑ पर्या॒रिणी᳚म् । प॒रि॒व॒थ्स॒रायावि॑जाताम् ।
इ॒दा॒व॒थ्स॒राया॑प॒स्कद्व॑रीम् । इ॒द्व॒त्स॒राया॒तीत्व॑रीम् ।
व॒थ्स॒राय॒ विज॑र्जराम् । सं॒​वँ॒थ्स॒राय॒ पलि॑क्नीम् ।
वना॑य वन॒पम् । अ॒न्यतो॑-ऽरण्याय दाव॒पम् ॥ 11 ॥
सरो᳚भ्यो धैव॒रम् । वेश॑न्ताभ्यो॒ दाशम्᳚ ।
उ॒प॒स्थाव॑रीभ्यो॒ बैन्दम्᳚ । न॒ड्व॒लाभ्यः॑ शौष्क॒लम् ।
पा॒र्या॑य कैव॒र्तम् । अ॒वा॒र्या॑य मार्गा॒रम् ।
ती॒र्थेभ्य॑ आ॒न्दम् । विष॑मेभ्यो मैना॒लम् ।
स्वने᳚भ्यः॒ पर्ण॑कम् । गुहा᳚भ्यः॒ किरा॑तम् ।
सानु॑भ्यो॒ जम्भ॑कम् । पर्व॑तेभ्यः॒ किम्पू॑रुषम् ॥ 12 ॥
प्र॒ति॒श्रुत्का॑या..ऋतु॒लम् । घोषा॑य भ॒षम् ।
अन्ता॑य बहुवा॒दिनम्᳚ । अ॒न॒न्ताय॒ मूकम्᳚ ।
मह॑से वीणावा॒दम् । क्रोशा॑य तूणव॒ध्मम् ।
आ॒क्र॒न्दाय॑ दुन्दुभ्याघा॒तम् । अ॒व॒र॒स्प॒राय॑ शङ्ख॒ध्मम् ।
ऋ॒भुभ्यो॑-ऽजिनसन्धा॒यम् । सा॒ध्येभ्य॑श्चर्म॒म्णम् ॥ 13 ॥
बी॒भ॒थ्सायै॑ पौल्क॒सम् । भूत्यै॑ जागर॒णम् ।
अभू᳚त्यै स्वप॒नम् । तु॒लायै॑ वाणि॒जम् ।
वर्णा॑य हिरण्यका॒रम् । विश्वे᳚भ्यो दे॒वेभ्यः॑ सिध्म॒लम् ।
प॒श्चा॒द्दो॒षाय॑ ग्ला॒वम् । ऋत्यै॑ जनवा॒दिनम्᳚ ।
व्यृ॑द्ध्या अपग॒ल्भम् । स॒ग्ं॒‍श॒राय॑ प्र॒च्छिदम्᳚ ॥ 14 ॥
हसा॑य पुग्ग्‍श्च॒लूमाल॑भते । वी॒णा॒वा॒द-ङ्गण॑क-ङ्गी॒ताय॑ ।
याद॑से शाबु॒ल्याम् । न॒र्माय॑ भद्रव॒तीम् ।
तू॒ष्ण॒व॒ध्म-ङ्ग्रा॑म॒ण्य॑-म्पाणिसङ्घा॒त-न्नृ॒त्ताय॑ ।
मोदा॑यानु॒क्रोश॑कम् । आ॒न॒न्दाय॑ तल॒वम् ॥ 15 ॥
अ॒क्ष॒रा॒जाय॑ कित॒वम् । कृ॒ताय॑ सभा॒विनम्᳚ ।
त्रेता॑या आदिनवद॒र्​शम् । द्वा॒प॒राय॑ बहि॒-स्सदम्᳚ ।
कल॑ये सभास्था॒णुम् । दु॒ष्कृ॒ताय॑ च॒रका॑चार्यम् ।
अध्व॑ने ब्रह्मचा॒रिणम्᳚ । पि॒शा॒चेभ्यः॑ सैल॒गम् ।
पि॒पा॒सायै॑ गोव्य॒च्छम् । निर्-ऋ॑त्यै गोघा॒तम् ।
क्षु॒धे गो॑विक॒र्तम् । क्षु॒त्तृ॒ष्णाभ्या॒-न्तम् ।
यो गां-विँ॒कृन्त॑न्त-म्मा॒ग्ं॒स-म्भिक्ष॑माण उप॒तिष्ठ॑ते ॥ 16 ॥
भूम्यै॑ पीठस॒र्पिण॒माल॑भते । अ॒ग्नये-ऽग्ं॑स॒लम् ।
वा॒यवे॑ चाण्डा॒लम् । अ॒न्तरि॑क्षाय वग्ंशन॒र्तिनम्᳚ ।
दि॒वे ख॑ल॒तिम् । सूर्या॑य हर्य॒क्षम् ।
च॒न्द्रम॑से मिर्मि॒रम् । नक्ष॑त्रेभ्यः कि॒लासम्᳚ ।
अह्ने॑ शु॒क्ल-म्पि॑ङ्ग॒लम् । रात्रि॑यै कृ॒ष्ण-म्पि॑ङ्गा॒क्षम् ॥ 17 ॥
वा॒चे पुरु॑ष॒माल॑भते । प्रा॒णम॑पा॒नं-व्याँ॒नमु॑दा॒नग्ं स॑मा॒न-न्तान्वा॒यवे᳚ ।
सूर्या॑य॒ चक्षु॒राल॑भते । मन॑श्च॒न्द्रम॑से ।
दि॒ग्भ्य-श्श्रोत्रम्᳚ । प्र॒जाप॑तये॒ पुरु॑षम् ॥ 18 ॥
अथै॒तानरू॑पेभ्य॒ आल॑भते । अति॑ह्रस्व॒मति॑दीर्घम् ।
अति॑कृश॒मत्यग्ं॑सलम् । अति॑शुक्ल॒मति॑कृष्णम् ।
अति॑श्लक्ष्ण॒मति॑लोमशम् । अति॑किरिट॒मति॑दन्तुरम् ।
अति॑मिर्मिर॒मति॑मेमिषम् । आ॒शायै॑ जा॒मिम् । प्र॒ती॒क्षायै॑ कुमा॒रीम् ॥ 19 ॥

Explore More