Goddess Chamunda

श्रीचामुण्डा स्तुतिः

(Shri Chamunda Stuti (Padma Purana))

Also known as sri chamunda stuti (padma purana) · shree chamunda stuti (padma purana) · chamunda stuti (padma purana)

From the Srishti Khanda of the Padma Purana, and spoken by Rudra himself. The body of it is a single chain of vocatives with scarcely a verb in seven verses: night of time, misshapen-eyed and three-eyed, of terrible form, great-bellied, conqueror of the mind and impassable to it, great pestilence, fond of song and dancing; then blazing-faced, sharp-fanged, noose in one hand and staff in another, fond of the jackal for a vehicle, seated on a corpse. Four names in a row are only the one word intensified — Karali, Vikarali, Mahakali, Karalini. The verse that closes it names what she is: this power, joined with knowledge, is called Shivaduti. Its promises are oddly exact. A king who has lost his kingdom, fasting on the eighth and ninth and fourteenth, gets it back whole within the year; and the text written out and kept in a house keeps fire and thieves from it.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्रीचामुण्डा स्तुतिः (पद्मपुराणान्तर्गता) ॥
जयस्व देवि चामुण्डे जय भूताऽपहारिणि ।
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥ १॥
विश्वमूर्तियुते शुद्धे विरूपाक्षी त्रिलोचने ।
भीमरूपे शिवे विद्ये महामाये महोदरे ॥ २॥
मनोजये मनोदुर्गे भीमाक्षि क्षुभितक्षये ।
महामारि विचित्राङ्गि गीतनृत्यप्रिये शुभे ॥ ३॥
विकरालि महाकालि कालिके पापहारिणि ।
पाशहस्ते दण्डहस्ते भीमहस्ते भयानके ॥ ४॥
चामुण्डे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले ।
शिवयानप्रिये देवि प्रेतासनगते शिवे ॥ ५॥
भीमाक्षि भीषणे देवि सर्वभूतभयङ्करि ।
करालि विकरालि च महाकालि करालिनि ॥ ६॥
कालि करालविक्रान्ते कालरात्रि नमोऽस्तु ते ।
सर्वशस्त्रभृते देवि नमो देवनमस्कृते ॥ ७॥

॥ फलश्रुतिः ॥

एवं स्तुता शिवदूती रुद्रेण परमेष्ठिना ।
तुतोष परमा देवी वाक्यं चैवमुवाच ह ॥ ८॥
वरं वृणीष्व देवेश यत्ते मनसि वर्तते ।

श्रीरुद्र उवाच

स्तोत्रेणाऽनेन ये देवि स्तोष्यन्ति त्वां वरानने ॥ ९॥
तेषां त्वं वरदा देवि भव सर्वगता सती ।
इमं पर्वतमारुह्य यः पूजयति भक्तितः ॥ १०॥
स पुत्रपौत्रपशुमान् समृद्धिमुपगच्छतु ।
यश्चैवं श‍ृणुयाद्भक्त्या स्तवं देवि समुद्भवम् ॥ ११॥
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छतु ।
भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः ॥ १२॥
अष्टम्यां च चतुर्दश्यां सोपवासो नरोत्तम ।
संवत्सरेण लभतां राज्यं निष्कण्टकं पुनः ॥ १३॥
एषा ज्ञानान्विता शक्तिः शिवदूतीति चोच्यते ।
य एवं श‍ृणुयान्नित्यं भक्त्या परमया नृप ॥ १४॥
सर्वपापविनिर्मुक्तः परं निर्वाणमाप्नुयात् ।
यश्चैनं पठते भक्त्या स्नात्वा वै पुष्करे जले ॥ १५॥
सर्वमेतत्फलं प्राप्य ब्रह्मलोके महीयते ।
यत्रैतल्लिखितं गेहे सदा तिष्ठति पार्थिव ॥ १६॥
न तत्राऽग्निभयं घोरं सर्वचोरादि सम्भवम् ।
यश्चेदं पूजयेद्भक्त्या पुस्तकेऽपि स्थितं बुधाः ॥ १७॥
तेन चेष्टं भवेत्सर्वं त्रैलोक्यं सचराचरम् ।
जायन्ते बहवः पुत्राः धनं धान्यं वरा स्त्रियः ॥ १८॥
रत्नान्यश्वा गजा भृत्यास्तेषामाशु भवन्ति च ।
यत्रेदं लिख्यते गेहे तत्राप्येवं ध्रुवं भवेत् ॥ १९॥
॥ इति पाद्मे पुराणे सृष्टिखण्डे श्रीचामुण्डा स्तुतिः समाप्ता ॥

Explore More