मन्दस्मितां त्रिनयनां घननीलवर्णाम् ।
कर्त्रीकपालोत्पलखड्गधर्त्रीं
धात्रीं सुरासुरनृणामखिलेश्वरीं च ॥ १॥
मक्षोभ्यशम्भुसहितामहिभूषणाढ्याम् ।
प्रत्यर्पिताङ्घ्रिशिववक्षसि सुप्रसन्नां
भक्तार्तिभयवारणकर्मदक्षाम् ॥ २॥
वस्वारधरणीगृहशोभमानाम् ।
शक्रादिसुरसङ्घसुसेव्यमाना-
मानन्दकन्दां पञ्चार्णवीं ताम् ॥ ३॥
हालाविघूर्णिततरां सुत्रिनेत्रजालाम् ।
व्याघ्राम्बरावृतकटीतटभासमानां
जाड्यापहां त्वरितसिद्धिप्रदां परेशीम् ॥ ४॥
सद्यः समृद्धिनिधिबुद्धिप्रकाशिकां च ।
ज्वलच्चितामध्यगतातिघोरां
दंष्ट्राकरालामपि भक्तपालाम् ॥ ५॥
तारां स्मरन्प्रतिदिनं भुविभारहाराम् ।
विद्याविभूतिसुखशान्तियशांस्यवाप्य
सोऽन्ते प्रयाति सालोक्यपदं जनन्याः ॥ ६॥
