व्युदपतदाशु हि पुष्करमादातुं नौमि तं समीरसुतम् ॥ १॥
विविधान्वरांस्तं वन्दे दुर्झयदिव्यमहिमानम् ॥ २॥
यं सुरनिकरा विस्मयमाजग्मुर्नोमि तं महाप्राज्ञम् ॥ ३॥
निर्मूलं यश्चक्रे वन्दे तं वायुसूनुममितबलम् ॥ ४॥
अद्राक्षीद्भयरहितो यस्तं प्रणमामि शिंशुपामूले ॥ ५॥
सीतां चक्रे मतिमांस्तमहं प्रणमामि शोकविच्छित्त्यै ॥ ६॥
एकः सहायरहितस्तमहं प्रणमामि गन्धवहसूनुम् ॥ ७॥
दग्ध्वा लङ्कां योऽगाद्रघुवरनिकटं स मामवतु ॥ ८॥
चक्रे चिन्तारहितं वन्दे तं चिन्तितार्थदं नमताम् ॥ ९॥
प्रशशंस रावणो यं तमतिबलानन्दवर्धनं नौमि ॥ १०॥
यो लक्ष्मणासुदानं चक्रे तं नौमि गरुडनिभवेगम् ॥ ११॥
आपीयागलमनिशं नन्दन्तं नौमि पवनमूलधनम् ॥ १२॥
रक्ताम्बुजास्यमीडे सक्तान्तःकरणमिनकुलोत्तंसे ॥ १३॥
कालाहितभयरहितं कामविदूरं नमामि कपिमुख्यम् ॥ १४॥
कुर्वन्तमीप्सितार्थैः सर्वैर्युक्तं भजेऽञ्जनासूनुम् ॥ १५॥
गतिविजितजनककीर्तिं मतिमतिनिशितां ददानमहमीडे ॥ १६॥
हर मम निखिलां चिन्तां करजितपाथोज कलितवटुरूप ॥ १७॥
कविशिष्यहरणचतुरं सवितृविनेयं नमामि वातसुतम् ॥ १८॥
रक्षाकरं नमस्याम्यक्षाधिपदूतमनिलपुण्यचयम् ॥ १९॥
नरशृङ्गतां नयन्तं नरमनिशं नौमि वाद्यमनिलसुतम् ॥ २०॥
अध्येतुमवनताखिलवाञ्छितदातृत्वमवनिजेडूत ॥ २१॥
त्वामीशानं के वा न ब्रुवते ब्रूहि वायुसूनो मे ॥ २२॥
हनुमन्भवन्तमीशं वदति न कः प्रणतसर्वदोषसहम् ॥ २३॥
पवमानपुण्यराशे प्लवमानाब्धौ नमामि तव चरणौ ॥ २४॥
