राजाधिराज रघुनायक मन्त्रीवर्य ! ।
सिन्दूरचर्चितकलेवर नैष्टिकेन्द्र !
श्री रामदूत ! हनुमन् ! हर सङ्कटं मे ॥ १॥
प्रोत्सारणैककसहाय ! हतास्रपौघ ! ।
निर्दग्धयातुपतिहाटकराजधाने !
श्री रामदूत ! हनुमन् ! हर सङ्कटं मे ॥ २॥
कण्ठासुलक्ष्मणसुखाहतजीववल्ले ! ।
द्रोणाचलानयननन्दितरामपक्ष !
श्री रामदूत ! हनुमन् ! हर सङ्कटं मे ॥ ३॥
दुःखाब्धिमग्नभरतार्पितपारिबर्ह ! ।
रामाङ्ग्रीपद्ममधुपीभवदन्तरात्मन् !
श्री रामदूत ! हनुमन् ! हर सङ्कटं मे ॥ ४॥
भार्याञ्जनीपुरूतपःफलपुत्रभाव ! ।
तार्थोपमोचितवपुर्बलतीव्रवेग !
श्री रामदूत ! हनुमन् ! हर सङ्कटं मे ॥ ५॥
विद्रावणारुणसमीक्षणदुःप्रद्यर्च्य ! ।
रोगप्घ्नसत्सुतदवित्तदमन्त्रजाप !
श्री रामदूत ! हनुमन् ! हर सङ्कटं मे ॥ ६॥
येब्रह्मराक्षसपिशाचगणाश्च भूताः ।
ते मारिकाश्च सभयं ह्यपयान्ति स त्वं !
श्री रामदूत ! हनुमन् ! हर सङ्कटं मे ॥ ७॥
दीनस्य दुर्मदसपत्नभयार्तिभाजः ।
ईष्टं ममापि परिपूरय पूर्णकाम !
श्री रामदूत ! हनुमन् ! हर सङ्कटं मे ॥ ८॥
