भगवान् श्रीरामचन्द्र ऋषिः ।
अनुष्टुप् छन्दः ।
श्रीपञ्चवक्त्र हनुमान् देवता । ॐ बीजम् ।
रुद्रमूर्तये इति शक्तिः । स्वाहा कीलकम् ।
श्रीपञ्चवक्त्र हनुमद्देवता प्रसादसिद्ध्यर्थे जपे विनियोगः ।
इति ऋष्यादि न्यासः ॥
ॐ ह्रीं रुद्रमूर्तये तर्जनीभ्यां नमः ।
ॐ ह्रूं वायुपुत्राय मध्यमाभ्यां नमः ।
ॐ ह्रैं अग्निगर्भाय अनामिकाभ्यां नमः ।
ॐ ह्रौं रामदूताय कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः पञ्चवक्त्रहनुमते करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ॥
ॐ ह्रीं रुद्रमूर्तये शिरसे स्वाहा ।
ॐ ह्रूं वायुपुत्राय शिखायै वषट् ।
ॐ ह्रैं अग्निगर्भाय कवचाय हुम् ।
ॐ ह्रौं रामदूताय नेत्रत्रयाय वौषट् ।
ॐ ह्रः पञ्चवक्त्रहनुमते अस्त्राय फट् ।
इति हृदयादि षडङ्गन्यासः ।
ॐ भूर्भुवः स्वरोमिति दिग्बन्धः ॥
देवेन्द्रप्रमुखैः प्रशस्तयशसं देदीप्यमानं ऋचा ॥
सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं
संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥
इति ध्यानम् ॥
नमोऽस्तु दीर्घबालाय राक्षसान्तकराय च ॥ १॥
सीतासन्तोषकरण नमो राघवकिङ्कर ॥ २॥
कलाकाष्ठस्वरूपाय माससंवत्सरात्मक ॥ ३॥
नमो विष्णुस्वरूपाय सूर्यरूपाय ते नमः ॥ ४॥
सर्वरम्भावनचर अशोकवननाशक ॥ ५॥
नमो रावणनाशाय इन्द्रजिद्वधकारिणे ॥ ६॥
नमः सुग्रीवसचिव सीतासन्तोषकारण ॥ ७॥
महावीर नमस्तुभ्यं दीर्घबाहो नमोनमः ॥ ८॥
छायाग्रहहर नमो वरसौम्यमुखेक्षण ॥ ९॥
अर्जुनध्वजसंवास कृष्णार्जुनसुपूजित ॥ १०॥
ब्रह्मास्त्रबन्द्य भगवन् आहतासुरनायक ॥ ११॥
दुष्टग्रहहरानन्त वासुदेव नमोऽस्तुते ॥ १२॥
नमः पम्पावनचर ऋष्यमूककृतालय ॥ १३॥
सुवर्चलाप्राणनाथ रामचन्द्रपरायण ॥ १४॥
वरिष्ठाय नमस्तुभ्यं वेदरूप नमो नमः ।
नमस्तुभ्यं नमस्तुभ्यं भूयो भूयो नमाम्यहम् ॥ १५॥
सर्वसम्पत्करं पुण्यं सर्वसौख्यविवर्धनम् ॥ १६॥
हृदयं पठते नित्यं स ब्रह्मसदृशो भवेत् ॥ १८॥
स दुःखं शीघ्रमाप्नोति मन्त्रसिद्धिर्न जायते ॥ १९॥
इत्थं च कथितं पूर्वं साम्बेन स्वप्रियां प्रति ॥ २०॥
तन्मया प्रहितं सर्वं शिष्यवात्सल्यकारणात् ॥ २१॥
