शक्तिं गणेशमपरे तु दिवाकरं वै ।
रूपैस्तु तैरपि विभासि यतस्त्वमेव
तस्मात्त्वमेव शरणं मम दीनबन्धो ॥ १ ॥
नैवात्मजो न च कुलं विपुलं बलं वा ।
संदृष्यते न किल कोऽपि सहायको मे
तस्मात्त्वमेव शरणं मम दीनबन्धो ॥ २ ॥
तीर्थानि चास्तिकधिया न हि सेवितानि ।
देवार्चनं च विधिवन्न कृतं कदापि
तस्मात्त्वमेव शरणं मम दीनबन्धो ॥ ३ ॥
चित्तं शरीरमपि रोगगणा दहन्ति ।
सञ्जीवनं च परहस्तगतं सदैव
तस्मात्त्वमेव शरणं मम दीनबन्धो ॥ ४ ॥
स्मृत्वाखिलानि ह्रदयं परिकम्पते मे ।
ख्याता च ते पतितपावनता तु यस्मात्
तस्मात्त्वमेव शरणं मम दीनबन्धो ॥ ५ ॥
काकश्वसूकरजनिर्निरयश्च पातः ।
त्वद्विस्मृतेः फलमिदं विततं हि लोके
तस्मात्त्वमेव शरणं मम दीनबन्धो ॥ ६ ॥
ब्रूयात्तवाहमिति यस्तु किलैकवारम् ।
तं यच्छसीश निजलोकमिति व्रतं ते
तस्मात्त्वमेव शरणं मम दीनबन्धो ॥ ७ ॥
रामायणेऽपि च पुराणकदम्बके वा ।
सर्वत्र सर्वविधिना गदितस्त्वमेव
तस्मात्त्वमेव शरणं मम दीनबन्धो ॥ ८ ॥
