Lord Rama

श्री रामाष्टोत्तर शत नाम स्तोत्रम्

(Shri Ramashtottara Sata Nama Stotram)

From Brahmanda Purana

This sacred hymn, found in the Brahmanda Purana, consists of one hundred and eight auspicious names of Lord Rama, the ideal king and avatar of Vishnu. Each name reflects his divine attributes, such as his compassion, valor, and adherence to dharma. Devotees chant this stotram to seek mental peace, spiritual upliftment, and the removal of obstacles. Regular recitation is believed to foster inner strength, purify the mind, and attract the grace of Lord Rama, helping the seeker walk the righteous path while experiencing profound devotion and a deeper connection to the divine presence of the Prince of Ayodhya.

॥ श्री राम अष्टोत्तर शतनामस्तोत्रम् ॥
श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः ।
राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ॥ 1 ॥
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः ।
विश्वामित्रप्रियो दान्तः शरणत्राणतत्परः ॥ 2 ॥
वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः ।
सत्यव्रतो व्रतधरः सदा हनुमदाश्रित: ॥ 3 ॥
कऽउसल्येयः खरध्वंसी विराधवधपण्डितः ।
विभीषणपरित्राता हरकोदण्डखण्डनः ॥ 4 ॥
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः ।
जामदग्व्यमहादर्पदलनस्ताटकान्तकः ॥ 5 ॥
वेदान्तसारो वेदात्मा भवरोगस्य भेषजम् ।
दूषणत्रिशिरोहन्ता त्रिमूर्तिस्त्रिगुणात्मकः ॥ 6 ॥
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः ।
त्रिलोकरक्षको धन्वी दण्डकारण्यकर्षणः ॥ 7 ॥
अहल्याशापशमनः पितृभक्तो वरप्रदः ।
जितेन्द्रियो जितक्रोधो जितावद्यो जगद्गुरुः ॥ 8 ॥
ऋक्षवानरसङ्घाती चित्रकूटसमाश्रयः ।
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ॥ 9 ॥
सर्वदेवाधिदेवश्चमृतवानरजीवनः ।
मायामारीचहन्ता च महादेवो महाभुजः ॥ 10 ॥
सर्वदेवस्तुतः सऽउम्यो ब्रह्मण्यो मुनिसंस्तुतः ।
महायोगी महोदारः सुग्रीवेप्सितराज्यदः ॥ 11 ॥
सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः ।
आदिपुरुषः परमपुरुषो महापुरुष एव च ॥ 12 ॥
पुण्योदयो दयासारः पुराणपुरुषोत्तमः ।
स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः ॥ 13 ॥
अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः ।
मायामानुषचारित्रो महादेवादिपूजितः ॥ 14 ॥
सेतुकृज्जितवाराशिः सर्वतीर्थमयो हरिः ।
श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः ॥ 15 ॥
सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः ।
विभीषणप्रतिष्ठाता सर्वापगुणवर्जितः ॥ 16 ॥
परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ।
परञ्ज्योतिः परन्धाम पराकाशः परात्परः ।
परेशः पारगः पारः सर्वदेवात्मकः परः ॥ 17 ॥
श्रीरामाष्टोत्तरशतं भवतापनिवारकम् ।
सम्पत्करं त्रिसन्ध्यासु पठतां भक्तिपूर्वकम् ॥ 18 ॥
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाःपतये नमः ॥ 19 ॥
॥ इति श्रीस्कन्दपुऱाणे श्रीराम अष्टोत्तर शतनामस्तोत्रम् ॥

Explore More