Goddess Bagalamukhi

श्री बगलामुखी स्तवराजः

(Sri Bagalamukhi Stavarajah (Atharvana Rahasya))

Also known as shri bagalamukhi stavarajah (atharvana rahasya) · shree bagalamukhi stavarajah (atharvana rahasya) · bagalamukhi stavarajah (atharvana rahasya)

Forty-two verses from a text called the secret of the Atharvan, and it opens not with the Goddess but with the teacher — I salute the lord who is a forest-fire to every doubt, the dwelling of the ocean of compassion, the wish-tree of those devoted to him. What follows works down through the body in a way that is unusual even among armours, asking her to guard not the limbs but what the limbs are made of: the self of the skin, the self of the blood, the self of the flesh, the self of the fat, the self of form and the supreme self, each in its own line, from one whose body does not move. The whole closes on a mantra to the great Rudra.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

वन्दे सकलसन्देहदावपावकमीश्वरम् ।
करुणावरुणावासं भक्तकल्पतरुं गुरुम् ॥ १॥
उल्लसत्पीतविद्योति विद्योतित तनुत्रयम् ।
निगमागमसर्वस्वमीडेऽहं तन्महन्महः ॥ २॥
ॐ पूर्वं स्थिरमायां च बगलामुखी सर्वतः ।
दुष्टानां वाचमुच्चार्य मुखं पदं तथोद्धरेत् ॥ ३॥
स्तम्भयेति ततो जिह्वां कीलयेति समुद्धरेत् ।
बुद्धिं विनाशयेति पदं स्थिरमायामनुस्मरेत् ॥ ४॥
प्रणवं वह्निजाया चेत्येव पैताम्बरो मनुः ।
पातु मां सर्वदा सर्वं निग्रहानुग्रहक्षमः ॥ ५॥
कण्ठं नारद ऋषिः पातु पङ्क्तिछन्दोऽवतान्मुखम् ।
पीताम्बरा देवता तु हृन्मध्यमवतान्मम ॥ ६॥
हली बीजं स्तनयोर्मेऽव्यात् स्वाहा शक्तिश्च दन्तयोः ।
स कीलकं तथा गुह्ये विनियोगोऽवताद्वपुः ॥ ७॥
षड्-दीर्घभाजा बीजेन व्यासोऽव्यान्मे करादिकम् ।
द्विपञ्जपञ्च नन्देषु दशभिर्मन्त्रवर्णकैः ॥ ८॥
षडङ्गकल्पना पातु षडङ्गानि ह्यनुक्रमात् ।
ऐं विद्यातत्त्वं क्लीं मायातत्त्वं सौश्च शिवात्मकम् ॥ ९॥
तत्त्वत्रयं सं बीजं च मूलं हृत्कण्ठं मध्यगः ।
सुधाब्धौ हेमभूरूढचम्पकोद्यानमध्यतः ॥ १०॥
गारुडोत्पलनिर्व्यूढस्वर्णसिंहासनोपरि ।
स्वर्णपङ्कजसंविष्टां त्रिनेत्रां शशिशेखराम् ॥ ११॥
पीतालङ्कारवसनां मल्लीचन्दनशोभिताम् ।
सव्याभां पञ्चशाखायां वज्रजिह्वां च बिभ्रतीम् ॥ १२॥
मुद्गरं नागपाशं च दक्षिणाभ्यां मदालसाम् ।
भक्तारिविग्रहोद्योगप्रगल्भां बगलामुखीम् ॥ १३॥
ध्यायमानस्य मे पातु शास्त्रवोद्वेषणे भृशम् ।
भूकलादलदिक्पत्रषट्कोणं त्र्यस्त्रबैन्दुकम् ॥ १४॥
यन्त्रं पैताम्बरं पातु सा मां पायादविग्रहा ।
आधारशक्तिमारभ्य ज्ञानात्मान्तास्तु शक्तयः ॥ १५॥
पीठाद्याः पान्तु पीठेऽत्रं प्रथमं मां च रक्षतु ।
शान्तिशङ्खविशेषात्मशक्तिभूतानि पान्तु माम् ॥ १६॥
आवाहनाद्याः पञ्चापि मुद्राश्च सुमनोजलैः ।
त्रिकोणमध्यमारभ्य पूजिता बगलामुखी ॥ १७॥
क्रोधिनी स्तम्भिनी चापि धारिण्यश्चापि मध्यगाः ।
ओजः पूषादिपीठानि कोणाग्रेषु स्थितानि वै ॥ १८॥
त्रिकोण बाह्यतः सिद्धनाथाद्या गुरवस्तथा ।
सिद्धनाथः सिद्धानन्दनाथः सिद्धपरमेष्ठि हि ॥ १९॥
नाथः सिद्धः श्रीकण्ठश्च नाथः सिद्धचतुष्टयम् ।
पातु मामथ षट्कोणे सुभगा भगरूपिणी ॥ २०॥
भगोदया च भगनिपातिनी भगमालिनी ।
भगवाहा च मां पातु षट्कोणाग्रेषु च क्रमात् ॥ २१॥
त्वगात्मा शोणितात्मा च मांसात्मा मेदसात्मकः ।
रूपात्मा परमात्मा च पातु मां स्थिरविग्रहा ॥ २२॥
अष्टपत्रेषु मूलेषु ब्राह्मी माहेश्वरी तथा ।
कौमारी वैष्णवी वाराहीन्द्राणी च तथा पुनः ॥ २३॥
चामुण्डा च महालक्ष्मीस्तत्र मध्ये पुनर्जया ।
विजया च जयाम्बा च राजिता जृम्भिणी तथा ॥ २४॥
स्तम्भिनी मोहिनी वश्याऽकर्षिण्यथ तदग्रके ।
असिताङ्गो रुरुश्चण्डः क्रौधोन्मत्तकपालिनः ।
भीषणाश्चापि संहार एते रक्षन्तु मां सदा ॥ २५॥
ततः षोडशपत्रेषु मङ्गला स्तम्भिनी तथा ।
जृम्भिणी मोहिनी वश्या ज्वाला सिंही बलाहका ॥ २६॥
भूधरा कल्मषा धात्री कन्यका कालकर्षिणी ।
भान्तिका मन्दगमना भोगस्था भावकेति च ॥ २७॥
पातु मामथ भूसद्म दशदिक्षु दिगीश्वराः ।
इन्द्रोऽनलो यमो रक्षो वरुणो मारुतः शशिः ॥ २८॥
ईशोऽनन्तः स्वयम्भूश्च दशैते पान्तु मे वपुः ।
वज्रशक्तिर्दण्डखड्गौ पाशाङ्कुशगदाः क्रमात् ।
शूलं चक्रं सरोजं च तत्तच्छस्त्राणि पान्तु माम् ॥ २९॥
अथ च पूर्वादि चतुर्दिशासु परतः क्रमात् ।
पातु विघ्नेशबटुकौ योगिनी क्षेत्रपालकः ॥ ३०॥
गुरुत्रयं त्रिरेखासु पातु मे वपुरञ्जसा ।
पुनः पीताम्बरा पातु उपचारैः प्रपूजिता ॥ ३१॥
साङ्गावरणशक्तिश्च जयश्रीः पातु सर्वदा ।
वलयं बटुकादिभ्यो रक्षां कुर्वन्तु मे सदा ॥ ३२॥
शक्तयः साधका वीराः पातु मे देवता इमाः ।
इत्यर्चाक्रमतः प्रोक्तं स्तोत्रं पैताम्बरं परम् ॥ ३३॥
यः पठेत् सकृदप्येतत् सोऽर्चाफलमवाप्नुयात् ।
सर्वथा कारयेत् क्षिप्रं प्रपद्यन्ते गदातुरान् ॥ ३४॥
राजानो राजपत्न्यश्च पौरजानपदास्तथा ।
वशगास्तस्य जायन्ते सततं सेवका इव ॥ ३५॥
गुरुकल्पाश्च विबुधा मूकतां यान्ति तेऽग्रतः ।
स्थिरा भवति तद्गेहे चपलापि हरिप्रिया ॥ ३६॥
पीताम्बराङ्गवसनो यदि लक्षसङ्ख्यं
पैताम्बरं मनुममुं प्रजपेन्नरो यः ।
हेमी सकृन्नियमवान् विधिना हरिद्रा-
मालां दधद्भवति तद्वशगा त्रिलोकी ॥ ३७॥
भवानि बगलामुखि त्रिदशकल्पवल्लि प्रभो
कृपाजलनिधे तव चरणधूतबाधाखिलः ।
सुरासुरनरादिकसकलभक्तभाग्यप्रदे
त्वदङ्घ्रिसरसीरुहद्वयमहं तु ध्याये सदा ॥ ३८॥
त्वमस्य जगतां जनिस्थितिविनाशबीजं निज
प्रकाशबहुलद्युतिर्भवति भक्तहृन्मध्यगा ।
त्रयीमनु सुपूजिता हरिहरादि वृन्दारकै-
रनुक्षणमनुक्षणं मयि शिवे क्षणं वीक्ष्यताम् ॥ ३९॥
शिवे तव तनूमहं हरिहराद्यगम्यां परां
निखिलतापप्रत्यूहहृदयाभावयुक्तां स्मरे ।
विदारय विचूर्णय ग्लपय शोषय स्तम्भय
प्रणोदय विरोधय प्रविलय प्रबद्धारिणाम् ॥ ४०॥
पार्वति कृपालसन्मयि कटाक्षपातं मना-
गनाकुलतया क्षणं क्षिप विपक्षसंक्षोभिणि ।
यदीक्षणपथं गतः सकृदपि प्रभुः कश्चन
स्फुटं मम वशंवदो भवतु तेन पीताम्बरे ॥ ४१॥
ॐ नमो भगवते महारुद्राय हुं फट् स्वाहा ।
॥ इति अथर्वणरहस्यान्तर्गतः श्रीबगलामुखीस्तवराजः समाप्तः ॥

Explore More