(कालानलतन्त्रोक्तम्)
गुणातीतसञ्ज्ञां महागुह्यगुह्याम् ।
महासर्पभूषां भवेशादिपूज्यां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ १ ॥
महामुण्डमालां गले शोभमानाम् ।
महाचर्मवस्त्रां महाशङ्खहस्तां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ २ ॥
वराभीतिहस्तां धृतावाक्षपुस्ताम् ।
महाकिन्नरेशीं भगाकारविद्यां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ३ ॥
हहाहा हहाहा महालापशब्दाम् ।
तथैथै तथैथै महानृत्यनृत्यां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ४ ॥
हुहूवू हुहूवू पशो रक्तपानाम् ।
धिमिन्धीं धिमिन्धीं मृदङ्गस्य शब्दां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ५ ॥
शिवार्धाङ्गभूतां महापुष्पमालाम् ।
महादुःखहर्त्रीं महाप्रेतसंस्थां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ६ ॥
महाकोमलाङ्गीं सुरेशेन मान्याम् ।
जगत्पालनैकाग्रचित्तां सुपुष्टां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ७ ॥
महाबुद्धिराशिं कवीनां मुखस्थाम् ।
जटीनां हृदिस्थां मनूनां शिरःस्थां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ८ ॥
महासिद्धिप्रदं दिव्यं चतुर्वर्गफलप्रदम् ॥ ९ ॥
सर्वदानोद्भवं पुण्यं लभते नात्र संशयः ॥ १० ॥
ग्रहदोषे महारोगे पठेत् स्तोत्रं विचक्षणः ॥ ११ ॥
दूतीयागे पठेद्देवि सर्वशत्रुक्षयो भवेत् ॥ १२ ॥
पूजान्ते पठते भक्त्या महाबलिफलप्रदम् ॥ १३ ॥
बिल्वमूले चैकवृक्षे रतौ मधुसमागमे ॥ १४ ॥
त्रिकालं पठते नित्यं देवीपुत्रत्वमाप्नुयात् ॥ १५ ॥
