Goddess Bala Tripurasundari

श्री बाला खड्गमाला स्तोत्रम्

(Sri Bala Khadgamala Stotram)

Also known as bala khadgamala · bala tripurasundari khadgamala · khadgamala stotram bala

A khadgamala — a garland of the sword — which is the form in which the attendant powers of a mandala are named in order, so that reciting it is a way of walking the diagram from its outside to its centre. The viniyoga gives Medha Dakshinamurti as the sage, gayatri as the metre and Bala Tripurasundari as the deity, with Aim, Klim and Sauh as seed, power and pin, and sets those three on the fingers and the six limbs before the garland begins. The names then follow the enclosures inward. The last line is the arrival: to Bala Tripurasundari, made of all bliss, salutation, salutation, salutation — with the three seeds repeated backwards at the very end, closing the circle the opening placement began.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्री बाला खड्गमाला स्तोत्रम् ॥
॥ विनियोगः ॥
अस्य श्री बाला खड्गमाला महामन्त्रस्य, श्री मेधा दक्षिणामुर्ति ऋषिः, गायत्री छन्दः, श्री बाला त्रिपुरसुन्दरी देवता, ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, श्री बाला खड्गमाला महामन्त्र जपे विनियोगः ॥
॥ करन्यासः ॥
ऐं अङ्गुष्ठाभ्यां नमः ।
क्लीं तर्जनीभ्यां नमः ।
सौः मध्यमाभ्यां नमः ।
ऐं अनामिकाभ्यां नमः ।
क्लीं कनिष्ठिकाभ्यां नमः ।
सौः करतल करपृष्ठाभ्यां नमः ।
॥ हृदयादिन्यासः ॥
ऐं हृदयाय नमः ।
क्लीं शिरसे स्वाहा ।
सौः शिखायै वषट् ।
ऐं कवचाय हुम् ।
क्लीं नेत्रत्रयाय वौषट् ।
सौः अस्त्राय फट् ।
॥ ध्यानम् ॥
बालभानुप्रतीकाशां पलाशकुसुमप्रभां
कमलायतनेत्रां तां विधिविष्णुशिवस्तुताम् ।
बिभ्रतीमिक्षुचापं च पुष्पौघं पाशमङ्कुशं
नमामि ललितां बालां त्रिपुरामिष्टसिद्धिदाम् ॥
॥ पञ्चोपचारः ॥
लमित्यादि पञ्चोपचार पूजां कुर्यात् ॥
॥ अथ खड्गमाला ॥
ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः नमः बालात्रिपुरसुन्दर्यै हृदयदेवि शिरोदेवि शिखादेवि कवचदेवि नेत्रदेवि अस्त्रदेवि ।
॥ दिव्यौघ गुरु मण्डलम् ॥
दिव्यौघाख्यगुरुरूपिणि प्रकाशानन्दमयि परमेशानन्दमयि परशिवानन्दमयि कामेश्वरानन्दमयि मोक्षानन्दमयि कामानन्दमयि अमृतानन्दमयि ।
॥ सिद्धौघ गुरु मण्डलम् ॥
सिद्धौघाख्यगुरुरूपिणि ईशानमयि तत्पुरुषमयि अघोरमयि वामदेवमयि सद्योजातमयि ।
॥ मानवौघ गुरु मण्डलम् ॥
मानवौघाख्यगुरुरूपिणि गगनानन्दमयि विश्वानन्दमयि विमलानन्दमयि मदनानन्दमयि आत्मानन्दमयि प्रियानन्दमयि ।
॥ गुरु चतुष्टयम् ॥
गुरुचतुष्टयरूपिणि गुरुमयि परमगुरुमयि परात्परगुरुमयि परमेष्ठिगुरुमयि ।
॥ षडङ्ग देवताः ॥
सर्वज्ञे नित्यतृप्ते अनादिबोधे स्वतन्त्रे नित्यमलुप्ते रतिमयि प्रीतिमयि मनोभवामयि ।
॥ पञ्चबाणाः ॥
सर्वसङ्क्षोभणबाणमयि सर्वविद्रावणबाणमयि सर्वाकर्षणबाणमयि वशीकरणबाणमयि उन्मादनबाणमयि ।
॥ पञ्चकामदेवाः ॥
काममयि मन्मथमयि कन्दर्पमयि मकरध्वजमयि मनोभवमयि ।
॥ भगमालिकाः ॥
सुभगामयि भगामयि भगसर्पिणीमयि भगमालामयि अनङ्गामयि अनङ्गकुसुमामयि अनङ्गमेखलामयि अनङ्गमदनामयि ।
॥ अष्टमातृकाः ॥
ब्राह्मीमयि माहेश्वरीमयि कौमारीमयि वैष्णवीमयि वाराहीमयि इन्द्राणीमयि चामुण्डामयि महालक्ष्मीमयि ।
॥ अष्टभैरवाः ॥
असिताङ्गमयि रुरुमयि चण्डमयि क्रोधमयि उन्मत्तमयि कपालमयि भीषणमयि संहारमयि ।
॥ नवपीठाः ॥
कामरूपपीठमयि मलयपीठमयि कुलनागगिरिपीठमयि कुलान्तकपीठमयि चौहारपीठमयि जालन्धरपीठमयि उड्यानपीठमयि देवीकोटपीठमयि ।
॥ दशक्षेत्रपालाः ॥
हेतुकमयि त्रिपुरान्तकमयि वेतालमयि अग्निजिह्वमयि कालान्तकमयि कपालमयि एकपादमयि भीमरूपमयि मलयमयि हाटकेश्वरमयि ।
॥ दशदिक्पालाः ॥
इन्द्रमयि अग्निमयि यममयि निरृतमयि वरुणमयि वायुमयि कुबेरमयि ईशानमयि ब्रह्ममयि अनन्तमयि ।
॥ दशायुधाः ॥
वज्रमयि शक्तिमयि दण्डमयि खड्गमयि पाशमयि अङ्कुशमयि गदामयि त्रिशूलमयि पद्ममयि चक्रमयि ।
॥ मूलमन्त्रः ॥
श्री श्री बालात्रिपुरसुन्दरि सर्वानन्दमयि नमस्ते नमस्ते नमस्ते स्वाहा सौः क्लीं ऐम् ।
॥ इति श्री बाला खड्गमाला स्तोत्रम् सम्पूर्णम् ॥

Explore More