Lord Shiva

श्री चन्द्रमौलीश्वर स्तवः

(Sri Candramaulisvara Stavah)

Also known as sri chandramouleshwara stava · shri candramaulisvara stavah · shree candramaulisvara stavah

A hymn to Śiva as Candramaulīśvara, the lord who wears the moon on his crest, from the Śivarahasya, where it is spoken by the gaṇas. Despite the name it has nothing to do with the planet, and its subject is not the crescent but non-duality. Every verse ends on the same line — we take refuge in Śrī Candramaulīśvara — and the verses before it are almost all Upaniṣadic: you in whom all this world shines and who are not other than the whole expanse, present as oil is present in sesame; whom the scriptures do not see though it stands at the head, as people do not see the thing on their own head; smaller than the small and greater than the great, the self set in the cave of this creature; the witness of all, shining beyond darkness, by whose light everything shines. Only the last verse turns to the figure, on the ridge of Kailāsa with the mountain's daughter.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

यस्मिन् जगत्सर्वमिदं विभाति
यश्चाप्यनन्यः सकलप्रपञ्चात् ।
तिलेषु तैलोपममास्थितं त्वां
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ १ ॥
पश्यन्ति यन्न श्रुतयः शिरस्थं
शिरःस्थितं वस्त्विव सर्वलोकाः ।
त्वामात्मभूतं जगतां त्रयाणां
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ २ ॥
अणोरणीयान् महतो महीया-
-नात्मा गुहायां निहितोऽस्य जन्तोः ।
त्वं सर्वभूतस्थितमात्मरूपं
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ३ ॥
यः सर्वसाक्षी तमसः परस्ता-
-द्विभाति सर्वं किल यस्य भासा ।
त्वामागमान्तैरपि दुर्निरूपं
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ४ ॥
पुमानविज्ञाय शिवं कदाचि-
-द्दुःखस्य नान्तं समुपैति धीरः ।
त्वां सच्चिदानन्दमयं प्रशान्तं
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ५ ॥
अजं पुराणं पुरुषं महान्तं
अनश्वरं वाङ्मनसाऽति दूरम् ।
ज्ञानात्मनां हृद्यवभासमानं
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ६ ॥
वदन्त्यमी यत्पदमेव वेदा
ज्ञाते तु यास्मिन् सकलं विबुद्धम् ।
त्वां प्रत्यगात्मनमचिन्त्यशक्तिं
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ७ ॥
यं निर्विकल्पेन समाधिनैव
तपस्विनश्चेतसि वीतरागाः ।
ध्यायन्ति तेजोमयमद्भुतं त्वां
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ८ ॥
त्रिलोचनं चन्द्रकलावतंसं
गङ्गातरङ्गोल्लसदुत्तमाङ्गम् ।
स्मेरास्यमिष्टप्रदमष्टमूर्तिं
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ९ ॥
अपारसच्चित्सुखराशिमेक-
-मनादिमध्यान्तमनन्तरूपम् ।
त्रिलोचनं नीलगलं प्रशान्तं
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ १० ॥
कैलासशैलेन्द्रशिरस्तटेषु
नगेन्द्रपुत्र्या सह संवसन्तम् ।
विभूति रुद्राक्षविभूषिताङ्गं
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ११ ॥
इति शिवरहस्यान्तर्गते गणैः कृत श्री चन्द्रमौलीश्वर स्तुतिः ॥

Explore More