कुंभाकार-पयोधराद्रितनया शुम्भासुर-द्वेषिणी ।
रम्भाभोरुमती सुधानिभ-वचोगुम्भावहा पज्जुषां
शं भामा त्रिपुरद्विषो वितनुयाद्दम्भापहा दुर्हृताम् ॥ १ ॥
कुम्भमदलोपकृदुरोजयुगभारा ।
शुम्भमुख-देवरिपु-वृन्दजयितसारा
गुम्पयितु मे गिरमुमा विधृतकीरा ॥ २ ॥
बिम्बनिभ-दन्तपटि धूतनत-खेदे ।
अम्ब धिषणां वितर दैत्यकुल-भीदे
शम्बधरमुख्य-सुरवृन्द-नुतपादे ॥ ३ ॥
दारित-निशाचरकुलाऽघहरनामा ।
ईरितगुणा श्रुतिभिरद्रिशयभामा
सारिततिमर्दयतु मौलिधृत-सोमा ॥ ४ ॥
पत्युर्वामाङ्क-हृदय-वदन-स्थाः ।
बल-धन-विद्या-दात्रीः
दुर्गा-लक्ष्मी-सरस्वतीर्वन्दे ॥ ५ ॥
पञ्चरत्नाभिधा सेयं पञ्चास्य-प्रेयसी-स्तुतिः ।
श्रीरामशर्म-कलिता प्रीयतां पार्वती ततः ॥ ६ ॥
