(विश्वमङ्गलम्)
संवर्त ऋषिः अनुष्टुप् छन्दः,
एकवक्त्रादि शतवक्त्रान्ता गुह्यकाली देवता,
फ्रें बीजं, स्फ्रें शक्तिः, छ्रीं कीलकं
सर्वाभीष्टसिद्धि पूर्वक आत्मरक्षणे जपे विनियोगः ॥
ह्रीं छ्रीं ललाटं मे सिद्धिविकरालि सदाऽवतु ॥ १ ॥
हूं स्त्रीं कर्णौ वज्रकापालिनी मे कालिकाऽवतु ॥ २ ॥
क्रीं क्रौं भ्रुवावुग्रचण्डा कालिका मे सदाऽवतु ॥ ३ ॥
हूं ह्रौं नासां चण्डकापालिनी मे सर्वदाऽवतु ॥ ४ ॥
ग्लूं ग्लौं दन्तान् राजराजेश्वरी मे रक्षतात् सदा ॥ ५ ॥
स्फ्रें स्फ्रें पातु स्वर्णकूटेश्वरी मे चिबुकं सदा ॥ ६ ॥
क्ष्रूं क्ष्रौं मे राजमातङ्गी स्कन्धौ रक्षतु सर्वदा ॥ ७ ॥
स्त्रें स्त्रौं वक्षःस्थलं पातु जयझङ्केश्वरी मम ॥ ८ ॥
छ्रैं छ्रौं मे जठरं पातु फेत्कारी घोरराविणी ॥ ९ ॥
क्षुं क्षौं पार्श्वो सदा पातु बाभुवी घोररूपिणी ॥ १० ॥
क्लूं क्लौं कटिं रक्षतु मे भीमादेवी भयानका ॥ ११ ॥
स्फ्रों स्फ्रौं मे जानुनी पातु कोरङ्गी भीषणानना ॥ १२ ॥
ज्रैं ज्रौं पादौ महाविद्या सर्वदा मम रक्षतु ॥ १३ ॥
ख्रें ख्रौं शरीरधातून्मे कामाख्या सर्वदाऽवतु ॥ १४ ॥
ज्लूं ज्लौं पातु महालक्ष्मीः खान्येकादश सर्वदा ॥ १५ ॥
तत्सर्वं सर्वदा पातु हरसिद्धा हरप्रिया ॥ १६ ॥
गुह्यकाली दिवारात्रौ सन्ध्यासु परिरक्षतु ॥ १७ ॥
सर्वेभ्यः कवचेभ्यस्तु श्रेष्ठं सारतरं परम् ॥ १८ ॥
तत्तत् स्थानेषु विन्यस्य बद्धवादः कवचं दृढम् ॥ १९ ॥
समरे निपतच्छस्त्रेऽरण्ये स्वापदसङ्कुले ॥ २० ॥
राजद्वारे सपिशुने गह्वरे सर्पवेष्टिते ॥ २१ ॥
न च व्याधिभयं तस्य नैव तस्करजं भयम् ॥ २२ ॥
विद्युद्वर्षोपलभयं न कदापि प्रबाधते ॥ २३ ॥
कृत्याभिचारजा दोषाः स्पृशन्त्येनं कदापि न ॥ २४ ॥
तत्कृत्वा तु प्रयुञ्जीत सर्वस्मिन्नपि कर्मणि ॥ २५ ॥
स्तम्भने च तथा द्वेषे तथा कृत्याभिचारयोः ॥ २६ ॥
एतत् प्रयोगात् सर्वाणि कार्याणि परिसाधयेत् ॥ २७ ॥
सङ्कटं तरति क्षिप्रं कलहे जयमाप्नुयात् ॥ २८ ॥
विद्यां कान्तिं तथौन्नत्यं यशं आरोग्यमेव च ॥ २९ ॥
अधीहि कवचं नित्यममुनामुञ्च च प्रिये ॥ ३० ॥
भुक्त्वा भोगानघं हत्वा देहान्ते मोक्षमाप्नुयात् ॥ ३३ ॥
