स्मृतिं ते देहि मां रक्ष भक्तिं ते देहि मे धृतिम् ॥
१। योगिराज –
अद्वयानन्दरूपाय योगमायाधराय च ।
योगिराजाय देवाय श्रीदत्ताय नमो नमः ॥
२। अत्रिवरद –
मालाकमण्डलुरधः कर पद्मयुग्मे
मध्यस्थपाणियुगले डमरु त्रिशूले ।
यन्यस्त ऊर्ध्वकरयोः शुभ शङ्ख चक्रे
वन्दे तमत्रिवरदं भुजषट्कयुक्तम् ॥
३। दत्तात्रेय –
दत्तात्रेयं शिवं शान्तं इन्द्रनीलनिभं प्रभुम् ।
आत्ममायारतं देवं अवधूतं दिगम्बरम् ॥
भस्मोद्धूलितसर्वाङ्गं जटाजूटधरं विभुम् ।
चतुर्बाहुमुदाराङ्गं दत्तात्रेयं नमाम्यहम् ॥
४। कालाग्निशमन –
ज्ञानानन्दैक दीप्ताय कालाग्निशमनाय च ।
भक्तारिष्टविनाशाय नमोऽस्तु परमात्मने ॥
५। योगिजनवल्लभ –
योगविज्जननाथाय भक्तानन्दकराय च ।
दत्तात्रेयाय देवाय तेजोरूपाय ते नमः ॥
६। लीलाविश्वम्भर –
पूर्णब्रह्मस्वरूपाय लीलाविश्वाम्भराय च ।
दत्तात्रेयाय देवाय नमोऽस्तु सर्वसाक्षिणे ॥
७। सिद्धराज –
सर्वसिद्धान्तसिद्धाय देवाय परमात्मने ।
सिद्धराजाय सिद्धाय मन्त्रदात्रे नमो नमः ॥
८। ज्ञानसागर –
सर्वत्राऽज्ञाननाशाय ज्ञानदीपाय चात्मने ।
सच्चिदानन्दबोधाय श्रीदत्ताय नमो नमः ॥
९। विश्वम्भरावधूत –
विश्वम्भराय देवाय भक्तप्रियकराय च ।
भक्तप्रियाय देवाय नामप्रियाय ते नमः ॥
१०। मायामुक्तावधूत –
मायामुक्ताय शुद्धाय मायागुणहराय ते ।
शुद्धबुद्धात्मरूपाय नमोऽस्तु परमात्मने ॥
११। मायायुक्तावधूत –
स्वमायागुणगुप्ताय मुक्ताय परमात्मने ।
सर्वत्राऽज्ञाननाशाय देवदेवाय ते नमः ॥
१२। आदिगुरु –
चिदात्मज्ञानरूपाय गुरवे ब्रह्मरूपिणे ।
दत्तात्रेयाय देवाय नमोऽस्तु परमात्मने ॥
१३। शिवरूप –
संसारदुःखनाशाय हिताय परमात्मने ।
दत्तात्रेयाय देवाय नमोऽस्तु परमात्मने ॥
१४। देवदेव –
सर्वापराधनाशाय सर्वपापहराय च ।
दत्तात्रेयाय देवाय नमोऽस्तु परमात्मने ॥
१५। दिगम्बर –
दुःखदुर्गतिनाशाय दत्ताय परमात्मने ।
दिगम्बराय शान्ताय नमोऽस्तु बुद्धिसाक्षिणे ॥
१६। कृष्णश्याम कमलनयन –
अखण्डाद्वैतरूपाय निर्गुणाय गुणात्मने ।
कृष्णाय पद्मनेत्राय नमोऽस्तु परमात्मने ॥
