॥ श्री दत्तात्रेय चिन्मयाष्टकम् ॥
दत्तात्रेयं प्रियदैवतं सर्वात्मकं विश्वम्भरम् ।
करुणार्णवं विपदाहरं चिन्मयं प्रणमाम्यहम् ॥ १ ॥
बालरूपं हास्यवदनं शङ्खचक्रयुतं प्रभुम् ।
धेनुसहितं त्रिशूलपाणिं चिन्मयं प्रणमाम्यहम् ॥ २ ॥
षड्भुजं स्तवनप्रियं त्रिगुणात्मकं भवतारकम् ।
शिवकारकं सुरवन्दितं चिन्मयं प्रणमाम्यहम् ॥ ३ ॥
प्रणवगायनतोषितं प्रणवपद्मैः पूजितम् ।
प्रणवात्मकं परमेश्वरं चिन्मयं प्रणमाम्यहम् ॥ ४ ॥
कोटिभास्करसदृशं तेजस्विनं तेजोमयम् ।
सद्गुरुं गुरूणां गुरुं चिन्मयं प्रणमाम्यहम् ॥ ५ ॥
विश्वनाटकचालकं ज्ञानगम्यं निर्गुणम् ।
भक्तकारणसम्भूतं चिन्मयं प्रणमाम्यहम् ॥ ६ ॥
बालयोगिध्यानमग्नं त्रिविधतापनिवारकम् ।
दीननाथं सिद्धिदं चिन्मयं प्रणमाम्यहम् ॥ ७ ॥
जनकजननीबन्धुसुहृदाः आप्तसर्वास्त्वं मम ।
एहि एहि स्मर्तृगामिन् चिन्मय प्रकटी भव ॥ ८ ॥
॥ इति श्री दत्तात्रेय चिन्मयाष्टकम् सम्पूर्णम् ॥