॥ श्री गणेशाय नमः ॥
॥ श्री इन्दिराष्टोत्तरशतनामावली ॥
ॐ विष्णुहृदयमन्दिरायै नमः ।
ॐ नन्दिताखिलभक्तश्रियै नमः ।
ॐ नन्दिकेश्वरवन्दितायै नमः ।
ॐ केशवप्रियचारित्रायै नमः ।
ॐ केवलानन्दरूपिण्यै नमः ।
ॐ केयूरहारमञ्जीरायै नमः ।
ॐ केतकीपुष्पधारण्यै नमः ।
ॐ कारुण्यकवितापाङ्ग्यै नमः ।
ॐ कामितार्थप्रदायन्यै नमः ।
ॐ कामधुक्सदृशा शक्त्यै नमः ।
ॐ कालकर्मविधायिन्यै नमः ।
ॐ जितदारिद्र्यसन्दोहायै नमः ।
ॐ धृतपङ्केरुहद्वय्यै नमः ।
ॐ कृतविद्ध्यण्डसंरक्षायै नमः ।
ॐ नतापत्परिहारिण्यै नमः ।
ॐ नीलाभ्राङ्गसरोनेत्रायै नमः ।
ॐ नीलोत्पलसुचन्द्रिकायै नमः ।
ॐ नीलकण्ठमुखाराध्यायै नमः ।
ॐ नीलाम्बरमुखस्तुतायै नमः ।
ॐ सर्ववेदान्तसन्दोहशुक्तिमुक्ताफलायितायै नमः ।
ॐ सर्वसुरकान्तोपसेवितायै नमः ।
ॐ भानुमत्यादिभावितायै नमः ।
ॐ भास्वत्कनकताटङ्कायै नमः ।
ॐ भानुकोट्यधिकप्रभायै नमः ।
ॐ पद्मसद्मपवित्राङ्ग्यै नमः ।
ॐ पद्मनाभप्रियसत्यै नमः ।
ॐ पद्मभूस्तन्यदायिन्यै नमः ।
ॐ भक्तदारिद्र्यशमन्यै नमः ।
ॐ मुक्तिसाधकदायिन्यै नमः ।
ॐ भुक्तिभोग्यप्रदायै नमः ।
ॐ भव्यशक्तिमदीश्वर्यै नमः ।
ॐ जन्ममृत्युज्वरत्रस्तजनजीवातुलोचनायै नमः ।
ॐ चारुसौभाग्यसद्विद्यायै नमः ।
ॐ सर्वचातुर्यफलरूपिण्यै नमः ।
ॐ राजराजार्चितपदायै नमः ।
ॐ राजमुद्रास्वरूपिण्यै नमः ।
ॐ तारुण्यवनसारङ्ग्यै नमः ।
ॐ तापसार्चितपादुकायै नमः ।
ॐ तारकेशार्कताटङ्कद्वयमण्डितायै नमः ।
ॐ भव्यविश्राणनोद्युक्तायै नमः ।
ॐ सव्यक्तसुखविग्रहायै नमः ।
ॐ दिव्यवैभवसम्पूर्णायै नमः ।
ॐ नव्यभक्तिशुभोदयायै नमः ।
ॐ तरुणादित्यताम्रश्रियै नमः ।
ॐ शरणागतसन्त्राणचरणायै नमः ।
ॐ वित्तदारिद्र्यशमन्यै नमः ।
ॐ वित्तक्लेशनिवारिण्यै नमः ।
ॐ वाल्मीकिव्यासदुर्वासोवालखिल्यादिवाञ्छितायै नमः ।
ॐ वारिजेक्षणहृत्केकिवारिदायितविग्रहायै नमः ।
ॐ दृष्ट्याऽऽसादितविद्ध्यण्डायै नमः ।
ॐ सृष्ट्यादिमहिमोच्छ्रयायै नमः ।
ॐ आस्तिक्यपुष्पभृङ्ग्यै नमः ।
ॐ नास्तिकोन्मूलनक्षमायै नमः ।
ॐ कृतसद्भक्तिसन्तोषायै नमः ।
ॐ कृत्तदुर्जनपौरुषायै नमः ।
ॐ सञ्जीविताशेषभाषायै नमः ।
ॐ सर्वाकर्षमतिस्नुषायै नमः ।
ॐ श्रीङ्कारकामदोग्ध्र्यै नमः ।
ॐ ह्रीङ्कारतरुकोकिलायै नमः ।
ॐ ऐङ्कारपद्मलोलम्बायै नमः ।
ॐ क्लीङ्कारामृतनिम्नगायै नमः ।
ॐ रमणीयसुवेषाढ्यायै नमः ।
ॐ करणीयक्रियेश्वर्यै नमः ।
ॐ श्रीवृक्षवासिन्यै नमः ।
ॐ योगिधीवृत्तिपरिभावितायै नमः ।
ॐ प्रावृड्भार्गववारार्च्यायै नमः ।
॥ इति श्री इन्दिराष्टोत्तरशतनामावली सम्पूर्णा ॥