Goddess Lalita

श्रीललिताष्टोत्तरशतनामावलिः २

(Sri Lalita Ashtottara Shatanamavali 2)

Also known as shri lalita ashtottara shatanamavali 2 · shree lalita ashtottara shatanamavali 2 · lalita ashtottara shatanamavali 2

A hundred and eight names that read as a cosmology rather than a list of epithets, prefaced by three meditation verses — vermilion-red of body with the moon flashing on a ruby crown; then the Goddess contemplated as I myself, ringed by the powers beginning with animan; then golden on a lotus seat in yellow silk. The names begin at the bottom of the world. She is the form of earth that bears everything, the form of seed and herb and food, the bodies born of womb and egg and sprout and sweat, the field, the ford, the mountain and the forest, water and fire. They rise through time and its constraint, through the five ethers and the letters of yantra and mantra, and end at the top: mother of the Vedas, the great utterances, the supreme light, the realisation of brahman itself.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

#of 115
॥ श्रीललिताष्टोत्तरशतनामावलिः २ ॥
॥ ध्यानम् ॥
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्-
तारानायकशेखरां स्मितममुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामतिपूर्णरत्नचषकं रक्तोत्पलं विभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत् परामम्बिकाम् ॥
अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥
ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीम्
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।
सर्वालङ्कार-युक्तां सततमभयदां भक्तनम्रां भवानीम्
श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥
॥ नामावलिः ॥
ॐ भूरूपसकलाधारायै नमः ।
ॐ बीजौषध्यन्नरूपिण्यै नमः ।
ॐ जरायुजाण्डजोद्भिज्ज-स्वेदजादिशरीरिण्यै नमः ।
ॐ क्षेत्ररूपायै नमः ।
ॐ तीर्थरूपायै नमः ।
ॐ गिरिकाननरूपिण्यै नमः ।
ॐ जलरूपाखिलाप्यायायै नमः ।
ॐ तेजःपुञ्जस्वरूपिण्यै नमः ।
ॐ जगत्प्रकाशिकायै नमः ।
ॐ अज्ञानतमोहृद्भानुरूपिण्यै नमः । १०
ॐ वायुरूपायै नमः ।
ॐ अखिलव्याप्तायै नमः ।
ॐ उत्पत्यादिविधायिन्यै नमः ।
ॐ नभोरूपायै नमः ।
ॐ इन्दुसूर्यादि-ज्योतिर्भूतावकाशदायै नमः ।
ॐ घ्राणरूपायै नमः ।
ॐ गन्धरूपायै नमः ।
ॐ गन्धग्रहणकारिण्यै नमः ।
ॐ रसनायै नमः ।
ॐ रसरूपायै नमः । २०
ॐ रसग्रहणकारिण्यै नमः ।
ॐ चक्षुरूपायै नमः ।
ॐ रूपरूपायै नमः ।
ॐ रूपग्रहणकारिण्यै नमः ।
ॐ त्वग्रूपायै नमः ।
ॐ स्पर्शरूपायै नमः ।
ॐ स्पर्शग्रहणकारिण्यै नमः ।
ॐ श्रोत्ररूपायै नमः ।
ॐ शब्दरूपायै नमः ।
ॐ शब्दग्रहणकारिण्यै नमः । ३०
ॐ वागिन्द्रियस्वरूपायै नमः ।
ॐ वाचावृत्तिप्रदायिन्यै नमः ।
ॐ पाणीन्द्रियस्वरूपायै नमः ।
ॐ क्रियावृत्तिप्रदायिन्यै नमः ।
ॐ पादेन्द्रियस्वरूपायै नमः ।
ॐ गतिवृत्तिप्रदायिन्यै नमः ।
ॐ पाय्विन्द्रियस्वरूपायै नमः ।
ॐ विसर्गार्थैककारिण्यै नमः ।
ॐ रहस्येन्द्रियरूपायै नमः ।
ॐ विषयानन्ददायिन्यै नमः । ४०
ॐ मनोरूपायै नमः ।
ॐ सङ्कल्पविकल्पादि-स्वरूपिण्यै नमः ।
ॐ सर्वोपलब्धिहेतवे नमः ।
ॐ बुद्धिनिश्चयरूपिण्यै नमः ।
ॐ अहङ्कारस्वरूपायै नमः ।
ॐ अहङ्कर्तव्यवृत्तिदायै नमः ।
ॐ चेतनाचित्तरूपायै नमः ।
ॐ सर्वचैतन्यदायिन्यै नमः ।
ॐ गुणवैषम्यरूपाढ्य-महत्तत्त्वाभिमानिन्यै नमः ।
ॐ गुणसाम्याव्यक्तमायामूल-प्रकृतिसञ्चिकायै नमः । ५०
ॐ पञ्चीकृतमहाभूत-सूक्ष्मभूतस्वरूपिण्यै नमः ।
ॐ विद्याऽविद्यात्मिकायै नमः ।
ॐ मायाबन्धमोचनकारिण्यै नमः ।
ॐ ईश्वरेच्छारागरूपायै नमः ।
ॐ प्रकृतिक्षोभकारिण्यै नमः ।
ॐ कालशक्त्यै नमः ।
ॐ कालरूपायै नमः ।
ॐ नियत्यादिनियामिकायै नमः ।
ॐ धूम्रादिपञ्चव्योमाख्यायै नमः ।
ॐ यन्त्रमन्त्रकलात्मिकायै नमः । ६०
ॐ ब्रह्मरूपायै नमः ।
ॐ विष्णुरूपायै नमः ।
ॐ रुद्ररूपायै नमः ।
ॐ महेश्वर्यै नमः ।
ॐ सदाशिवस्वरूपायै नमः ।
ॐ सर्वजीवमय्यै नमः ।
ॐ शिवायै नमः ।
ॐ श्रीवाणीलक्ष्म्युमारूपायै नमः ।
ॐ सदाख्यायै नमः ।
ॐ चित्कलात्मिकायै नमः । ७०
ॐ प्राज्ञतैजसविश्वाख्य-विराट्सूत्रेश्वरात्मिकायै नमः ।
ॐ स्थूलदेहस्वरूपायै नमः ।
ॐ सूक्ष्मदेहस्वरूपिण्यै नमः ।
ॐ वाच्यवाचकरूपायै नमः ।
ॐ ज्ञानज्ञेयस्वरूपिण्यै नमः ।
ॐ कार्यकारणरूपायै नमः ।
ॐ तत्तत्तत्वाधिदेवतायै नमः ।
ॐ दशनादस्वरूपायै नमः ।
ॐ नाडीरूपाढ्यकुण्डल्यै नमः ।
ॐ अकारादिक्षकारान्तवैखरी-वाक्स्वरूपिण्यै नमः । ८०
ॐ वेदवेदाङ्गरूपायै नमः ।
ॐ सूत्रशास्त्रादिरूपिण्यै नमः ।
ॐ पुराणरूपायै नमः ।
ॐ सद्धर्मशात्ररूपायै नमः ।
ॐ परात्परस्यै नमः ।
ॐ आयुर्वेदस्वरूपायै नमः ।
ॐ धनुर्वेदस्वरूपिण्यै नमः ।
ॐ गान्धर्वविद्यारूपायै नमः ।
ॐ अर्थशास्त्रादिरूपिण्यै नमः ।
ॐ चतुष्षष्टिकलारूपायै नमः । ९०
ॐ निगमागमरूपिण्यै नमः ।
ॐ काव्येतिहासरूपायै नमः ।
ॐ गानविद्यादिरूपिण्यै नमः ।
ॐ पदवाक्यस्वरूपायै नमः ।
ॐ सर्वभाषास्वरूपिण्यै नमः ।
ॐ पदवाक्यस्फोटरूपायै नमः ।
ॐ ज्ञानज्ञेयक्रियात्मिकायै नमः ।
ॐ सर्वतन्त्रमय्यै नमः ।
ॐ सर्वयन्त्रतन्त्रादिरूपिण्यै नमः ।
ॐ वेदमात्रे नमः । १००
ॐ ललितायै नमः ।
ॐ महाव्याहृतिरूपिण्यै नमः ।
ॐ अव्याकृतपदानाद्यचिन्त्य-शक्त्यै नमः ।
ॐ तमोमय्यै नमः ।
ॐ परस्मै ज्योतिषे नमः ।
ॐ परब्रह्मसाक्षात्कार-स्वरूपिण्यै नमः ।
ॐ परब्रह्ममय्यै नमः ।
ॐ सत्यासत्यज्ञानसुधात्मिकायै नमः । १०८
॥ इति श्रीललिताष्टोत्तरशतनामावलिः २ समाप्ता ॥

Explore More