कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।
पप्रच्छेशं परानन्दं भैरवी परमेश्वरम् ॥ १ ॥
कौलेश श्रोतुमिच्छामि सर्वमन्त्रोत्तमोत्तमम् ।
ललिताया शतनाम सर्वकामफलप्रदम् ॥ २ ॥
शृणु देवि महाभागे स्तोत्रमेतदनुत्तमम् ।
पठनाद्धारणादस्य सर्वसिद्धीश्वरो भवेत् ॥ ३ ॥
गोपनीयं पशोरग्रे स्वयोनिमपरे यथा ॥ ४ ॥
राजराजेश्वरो ऋषिः प्रोक्तो छन्दोऽनुष्टुप् तथा ॥ ५ ॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ६ ॥
प्रयोगे बालात्र्यक्षरी योजयित्वा जपं चरेत् ॥ ७ ॥
ओं ऐं अङ्गुष्ठाभ्यां नमः ।
ओं क्लीं तर्जनीभ्यां नमः ।
ओं सौः मध्यमाभ्यां नमः ।
ओं ऐं अनामिकाभ्यां नमः ।
ओं क्लीं कनिष्ठिकाभ्यां नमः ।
ओं सौः करतलकरपृष्ठाभ्यां नमः ।
ओं ऐं हृदयाय नमः ।
ओं क्लीं शिरसे स्वाहा ।
ओं सौः शिखायै वषट् ।
ओं ऐं कवचाय हुम् ।
ओं क्लीं नेत्रत्रयाय वौषट् ।
ओं सौः अस्त्राय फट् ।
बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशधनुर्बाणान् धारयन्तीं शिवां भजे ॥
ललिता लक्ष्मी लोलाक्षी लक्ष्मणा लक्ष्मणार्चिता ।
लक्ष्मणप्राणरक्षिणी लाकिनी लक्ष्मणप्रिया ॥ १ ॥
लक्ष्या लाक्ष्या लक्षरता लकाराक्षरभूषिता ॥ २ ॥
लावण्यामृतसारा च लावण्यामृतदीर्घिका ॥ ३ ॥
लवणा लवली लसा लाक्षकी लुब्धा लालसा ॥ ४ ॥
लोहिता लोहिताक्षी च लिङ्गाख्या चैव लिङ्गेशी ॥ ५ ॥
लिङ्गाभिधायिनी लिङ्गा लिङ्गनामसदानन्दा ॥ ६ ॥
लिङ्गरूपा लिङ्गस्था च लिङ्गालिङ्गनतत्परा ॥ ७ ॥
लतापूजकरक्षिणी लतासाधनसिद्धिदा ॥ ८ ॥
लतापुष्पा लतारता लताधारा लतामयी ॥ ९ ॥
लताविद्या लतासारा लताऽऽचारा लतानिधी ॥ १० ॥
लवङ्गलतिकारूपा लवङ्गहोमसन्तुष्टा ॥ ११ ॥
लकारवर्णभूषिता लकारवर्णरुचिरा ॥ १२ ॥
लकारबीजनिलया लकारबीजसर्वस्वा ॥ १३ ॥
लक्ष्यधरा लक्ष्यघूर्णा लक्षजापेनसिद्धिदा ॥ १४ ॥
लोकपालेनार्चिता च लाक्षारागविलेपना ॥ १५ ॥
लज्जाहीना लज्जामयी लोकयात्राविधायिनी ॥ १६ ॥
लघिमादिसिद्धिदात्री लावण्यनिधिदायिनी ।
लकारवर्णग्रथिता लम्बीजा ललिताम्बिका ॥ १७ ॥
इति ते कथितं देवि गुह्याद्गुह्यतरं परम् ।
प्रातःकाले च मध्याह्ने सायाह्ने च सदा निशि ।
यः पठेत् साधकश्रेष्ठो त्रैलोक्यविजयी भवेत् ॥ १ ॥
शून्यागारे शिवारण्ये शिवदेवालये तथा ॥ २ ॥
एकलिङ्गे ऋतुस्नातागेहे वेश्यागृहे तथा ॥ ३ ॥
साधको वाञ्छां यत्कुर्यात् तत्तथैव भविष्यति ॥ ४ ॥
समस्ताः सिद्धयो देवि करामलकवत्सदा ॥ ५ ॥
स्वयमायान्ति पुरतो जपादीनां तु का कथा ॥ ६ ॥
पुरश्चर्यायुतः स्तोत्रः सर्वकर्मफलप्रदः ॥ ७ ॥
दासीभूतं जगत्सर्वं मासार्धाद्भवति ध्रुवम् ॥ ८ ॥
भूलोकस्थाः सर्वकन्याः सर्वलोकस्थितास्तथा ॥ ९ ॥
वशीकुर्यान्मण्डलार्धात्संशयो नात्र विद्यते ॥ १० ॥
तत् क्षणाद्व्याधिनाशश्च भवेद्देवि न संशयः ॥ ११ ॥
लक्ष्मी प्रसीदति ध्रुवं स त्रैलोक्यं वशिष्यति ॥ १२ ॥
प्राणप्रतिष्ठां कृत्वा तु पूजां चैव हि कारयेत् ॥ १३ ॥
जिह्वास्तम्भनमाप्नोति सद्यो मूकत्वमाप्नुयात् ॥ १४ ॥
शत्रुक्षयो भवेत् सद्यो नान्यथा मम भाषितम् ॥ १५ ॥
शत्रुनाम लिखित्वा च प्राणप्रतिष्ठां कारयेत् ॥ १६ ॥
श्मशाने निखनेद्रात्रौ शतवारं पठेत् स्तोत्रम् ॥ १७ ॥
श्मशानाङ्गारमादाय मङ्गले शनिवारे वा ॥ १८ ॥
दशाभिमन्त्रितं कृत्वा खनेद्वैरिवेश्मनि ॥ १९ ॥
कुमारीं पूजयित्वा तु यः पठेद्भक्तितत्परः ॥ २० ॥
दुर्भिक्षे राजपीडायां सङ्ग्रामे वैरिमध्यके ॥ २१ ॥
तत्र तत्राभयं तस्य भवत्येव न संशयः ॥ २२ ॥
जपं कृत्वा पठेद्यस्तु तस्य सिद्धिः करे स्थिता ॥ २३ ॥
अष्टवारं पठेद्यस्तु कुबेरसदृशो भवेत् ॥ २४ ॥
प्रतिनाम्ना जुहुयात्स धनराशिमवाप्नुयात् ॥ २५ ॥
वन्ध्यां पुत्रप्रदं देवि नात्र कार्या विचारणा ॥ २६ ॥
बहुपुत्रवती नारी सुभगा जायते ध्रुवम् ॥ २७ ॥
सुविनीताय शान्ताय दान्तायातिगुणाय च ॥ २८ ॥
भक्तभक्ताय योग्याय भक्तिशक्तिपराय च ॥ २९ ॥
दुर्गाभक्ताय शैवाय कामेश्वरप्रजापिने ॥ ३० ॥
प्रदेयं शतनामाख्यं स्वयं ललिताज्ञया ॥ ३१ ॥
भ्रष्टाय दुष्टतत्त्वाय परीवादपराय च ॥ ३२ ॥
वेश्यास्त्रीनिन्दकाय च पञ्चमकारनिन्दके ॥ ३३ ॥
तस्मान्न दापयेद्देवी मनसा कर्मणा गिरा ॥ ३४ ॥
पुत्रहारी च स्त्रीहारी राज्यहारी भवेद्ध्रुवम् ॥ ३५ ॥
क्रमदीक्षायुतानां च सिद्धिर्भवति नान्यथा ॥ ३६ ॥
क्रमदीक्षासमायुक्तः कल्पोक्तसिद्धिभाग्भवेत् ॥ ३७ ॥
सर्वसिद्धिमवाप्नोति नात्र कार्या विचारणा ॥ ३८ ॥
गोपनीयं गोपनीयं गोपनीयं सदाऽनघे ॥ ३९ ॥
स वेदवक्ता स्वाध्यायी सर्वानन्दपरायणः ॥ ४० ॥
त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा ॥ ४१ ॥
सदाशिवः स एव स्यान्नात्र कार्या विचारणा ॥ ४२ ॥
