जय कल्याणनिलये जय कामकलात्मिके ॥ १ ॥
जयाखिलसुराराध्ये जय कामेशि मानदे ॥ २ ॥
जय नारायणि परे नन्दिताशेषविष्टपे ॥ ३ ॥
जय श्रीविजये देवि विजयश्रीसमृद्धिदे ॥ ४ ॥
नमस्तस्यै त्रिजगतां पालयित्र्यै परात्परे ॥ ५ ॥
नमः सहस्रशीर्षायै सहस्रमुखलोचने ॥ ६ ॥
अणोरणुतरे देवि महतोऽपि महीयसि ॥ ७ ॥
अतलं तु भवेत्पादौ वितलं जानुनी तव ॥ ८ ॥
हृदयं तु भुवर्लोकः स्वस्ते मुखमुदाहृतम् ॥ ९ ॥
मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयोऽखिलाः ॥ १० ॥
आहारस्ते सदानन्दो वासस्ते हृदये सताम् ॥ ११ ॥
शिरोरुहा घनास्ते तु तारकाः कुसुमानि ते ॥ १२ ॥
यमाश्च नियमाश्चैव करपादरुहास्तथा ॥ १३ ॥
प्राणायामस्तु ते नासा रसना ते सरस्वती ॥ १४ ॥
मनस्ते धारणाशक्तिर्हृदयं ते समाधिकः ॥ १५ ॥
भूतं भव्यं भविष्यच्च नित्यं च तव विग्रहः ॥ १६ ॥
आदौ या तु दया भूता ससर्ज निखिलाः प्रजाः ॥ १७ ॥
नामरूपविभागं च या करोति स्वलीलया ॥ १८ ॥
नमस्तस्यै महादेव्यै सर्वशक्त्यै नमो नमः ॥ १९ ॥
पृथिव्यादीनि भूतानि तस्यै देव्यै नमो नमः ॥ २० ॥
दधार स्वयमेवैका तस्यै देव्यै नमो नमः ॥ २१ ॥
यस्यामुदेति सविता तस्यै देव्यै नमो नमः ॥ २२ ॥
यत्रान्तमेति काले तु तस्यै देव्यै नमो नमः ॥ २३ ॥
नमो नमः सात्त्विकसंस्थितायै ।
नमो नमस्ते तमसे हरायै
नमो नमो निर्गुणतः शिवायै ॥ २४ ॥
नमो नमस्ते जगदेकपित्रे ।
नमो नमस्तेऽखिलरूपतन्त्रे
नमो नमस्तेऽखिलयन्त्ररूपे ॥ २५ ॥
नमो नमस्तेऽखिलवाग्विभूत्यै ।
नमोऽस्तु लक्ष्म्यै जगदेकतुष्ट्यै
नमो नमः शाम्भवि सर्वशक्त्यै ॥ २६ ॥
ह्यवाङ्मनोगम्यमतर्क्यवैभवम् ।
अरूपमद्वन्द्वमदृष्टिगोचरं
प्रभावमग्र्यं कथमम्ब वर्ण्यते ॥ २७ ॥
प्रसीद विद्येश्वरि वेदरूपिणि ।
प्रसीद मायामयि मन्त्रविग्रहे
प्रसीद सर्वेश्वरि सर्वरूपिणि ॥ २८ ॥
