स्वजनोदधिसंवृद्धि पूर्णचन्द्रो गुणार्णवः । (सुजनोदधिसंवृद्धि)
अमन्दानन्द सान्द्रो नः सदाव्यादिन्दिरापतिः ॥ 1॥
रमाचकोरीविधवे दुष्टदर्पोदवह्नये । (दुष्टसर्पोदवह्नये)
सत्पान्थजनगेहाय नमो नारायणाय ते ॥ 2॥
अव्याकृतगुहस्थाय रमाप्रणयिने नमः ॥ 3॥
नित्यमिन्दिरयाऽनन्दसान्द्रो यो नौमि तं हरिम् ॥ 4॥
सर्वकर्ता न क्रियते तं नमामि रमापतिम् ॥ 5॥
विदारितारिसङ्घाय वासुदेवाय ते नमः ॥ 6॥
अनाद्यज्ञानपाराय नमः पारावराश्रय ॥ 7॥
अजाय जनयित्रेऽस्य विजिताखिलदानव ।
अजादि पूज्यपादाय नमस्ते गरुडध्वज ॥ 8॥
अस्मदिष्टैक कार्याय पूर्णाय हरये नमः ॥ 9॥
