निजपूर्णसुखामितबोधतनुः परशक्तिरनन्तगुणः परमः ।
अजरामरणः सकलार्तिहरः कमलापतिरीड्यतमोऽवतु नः ॥ 1॥
स्वमतिप्रभवं जगदस्य यतः परबोधतनुं च ततः खपतिम् ॥ 2॥
बहुचित्रजगत् बहुधाकरणात्परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्यपदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥ 3॥
विमलं हि पदं परमं स्वरतं तरुणार्कसवर्णमजस्य हरेः ॥ 4॥
बलिनं निजवैरिणमात्मतमोभिदमीशमनन्तमुपास्व हरिम् ॥ 5॥
सृजतीड्यतमोऽवति हन्ति निजं पदमापयति प्रणतां स्वधिया ॥ 6॥
क्वचिदद्यतनोऽपि न पूर्णसदागणितेड्यगुणानुभवैकतनोः ॥ 7॥
सुखतीर्थपदाभिहितः पठतस्तदिदं भवति ध्रुवमुच्चसुखम् ॥ 8॥
