Lord Vishnu

श्री मध्वाचार्य कृत द्वादश स्तोत्र - चतुर्थस्तोत्रम्

(Dvadasha Stotra - Fourth Stotram)

Madhvacharya

This composition is the fourth chapter of the famous Dvadasha Stotra authored by the Dvaita philosopher Sri Madhvacharya. Dedicated to Lord Vishnu in his supreme form, the hymn emphasizes his attributes as the destroyer of sorrows and the source of eternal bliss. Madhvacharya composed these verses to celebrate the glory of the Lord during the consecration of the Udupi Krishna temple. Chanting this stotra is believed to remove spiritual ignorance, provide profound philosophical clarity, and bestow the grace of the Supreme Being, helping the seeker attain liberation by surrendering to the divine will of Hari.

अथ चतुर्थस्तोत्रम् निजपूर्णसुखामितबोधतनुः परशक्तिरनन्तगुणः परमः ।

अजरामरणः सकलार्तिहरः कमलापतिरीड्यतमोऽवतु नः ॥ 1॥
यदसुप्तिगतोऽपि हरिः सुखवान् सुखरूपिणमाहुरतो निगमाः ।
स्वमतिप्रभवं जगदस्य यतः परबोधतनुं च ततः खपतिम् ॥ 2॥
(सुमतिप्रभवम्)
बहुचित्रजगत् बहुधाकरणात्परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्यपदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥ 3॥
स्मरणे हि परेशितुरस्य विभोर्मलिनानि मनांसि कुतः करणम् ।
विमलं हि पदं परमं स्वरतं तरुणार्कसवर्णमजस्य हरेः ॥ 4॥
विमलैः श्रुतिशाणनिशाततमैः सुमनोऽसिभिराशु निहत्य दृढम् ।
बलिनं निजवैरिणमात्मतमोभिदमीशमनन्तमुपास्व हरिम् ॥ 5॥
न हि विश्वसृजो विभुशम्भुपुरन्दर सूर्यमुखानपरानपरान् ।
सृजतीड्यतमोऽवति हन्ति निजं पदमापयति प्रणतां स्वधिया ॥ 6॥
परमोऽपि रमेशितुरस्य समो न हि कश्चिदभून्न भविष्यति च ।
क्वचिदद्यतनोऽपि न पूर्णसदागणितेड्यगुणानुभवैकतनोः ॥ 7॥
इति देववरस्य हरेः स्तवनं कृतवान् मुनिरुत्तममादरतः ।
सुखतीर्थपदाभिहितः पठतस्तदिदं भवति ध्रुवमुच्चसुखम् ॥ 8॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु चतुर्थस्तोत्रं सम्पूर्णम्

Explore More