कुरु भुङ्क्ष्व च कर्म निजं नियतं हरिपादविनम्रधिया सततम् ।
हरिरेव परो हरिरेव गुरुः हरिरेव जगत्पितृमातृगतिः ॥ 1॥
तदलं बहुलोकविचिन्तनया प्रवणं कुरु मानसमीशपदे ॥ 2॥
स्मरतस्तु विमुक्तिपदं परमं स्फुटमेष्यति तत्किमपाक्रियते ॥ 3॥
न हरेः परमो न हरेः सदृशः परमः स तु सर्व चिदात्मगणात् ॥ 4॥
यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेत् ॥ 5॥
चिदचित्तनु सर्वमसौ तु हरिर्यमयेदिति वैदिकमस्ति वचः ॥ 6॥
बहवः पुरुषाः पुरुषप्रवरो हरिरित्यवदत्स्वयमेव हरिः ॥ 7॥
नियतोच्चविनीचतयैव निजां स्थितिमापुरिति स्म परं वचनम् ॥ 8॥
कृतं हर्यष्टकं भक्त्या पठतः प्रीयते हरिः ॥ 9॥
