Goddess Matangi

श्री मातङ्गी स्तोत्र पुष्पाञ्जलिः (Sri Matangi Stotra Pushpanjali)

(Sri-matangi-stotra-pushpanjali)

Also known as asti nanavidhamsastam vastunavainikena vah

Thirty verses offered as a handful of flowers, and the first of them places the reader before it begins to praise: I take refuge in the jewel island in the middle of the ocean of nectar. From there the hymn works inward through the furniture of the Shrividya rather than through the story of the goddess. One verse asks the five flower-arrows to guard the heart and names them in order — the one that makes flee, the one that angers, the one that binds, the one that bewilders, and fifth the one that maddens. The last verse turns the title back on itself, calling the reciters a swarm of bees and what they bring a handful of flowers laid before the daughter of Matanga.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्रीमातङ्गीस्तोत्रपुष्पाञ्जलिः ॥
अस्ति नानाविधंशस्तं वस्तुनावैणिकेन वः ।
अमृताम्बुनिधेर्मध्ये माणिक्य द्वीपमाश्रये ॥ १॥
सुधातरङ्ग सञ्चारिमारुतस्पर्श शीतलम् ।
कल्पद्रुमकदम्बालि पारिजातपटीरकैः ॥ २॥
निवडीकृतमुद्यानं निषेवेनिर्भरोत्सवम् ।
तदलसलतोन्मीलत्कुसुमामोद मेदुरम् ॥ ३॥
जागर्ति मानसे मत्केतरुणं नीपकाननम् ।
तस्यान्तरालतरलामुक्तमुक्तालताततेः ॥ ४॥
ज्योतिर्मयमहन्नौमिमहितं रत्नमण्डपम् ।
सरस्वत्या च लक्ष्म्या च पूर्वादिद्वारभूमिषु ॥ ५॥
शङ्खपद्मनिधिभ्यां च सतताध्युषि संस्तुवे ।
इन्द्रादीन्लोकपालान् च सायुधान् सपरिच्छदान् ॥ ६॥
मण्डपस्यबहिर्भागेऽप्यष्टदिक्षु क्रमस्थितान् ।
अथध्यायामि रत्नार्चिरयत्नाकॢप्तदीपिकाम् ॥ ७॥
हरिचन्दन संलिप्तां हारिणीं मणिदीपिकाम् ।
तत्रत्रिकोण पञ्चाराष्टारषोडशपत्रकैः ॥ ८॥
अष्टाष्टधारवेदास्त्रैश्चिन्मयं वक्त्र मीमहे ।
तस्यमध्ये कृतानासाम साधारण वैभवाम् ॥ ९॥
इन्दुरेखावतीमेणी लोचनां वेणिशालिनीम् ।
हासांशूल्लासनासीर नासाभरण मौक्तिकाम् ॥ १०॥
मदरक्तकपोलश्री मग्नमाणिक्य दर्पणाम् ।
आनन्दहारिणीं तालिदलताटङ्कधारिणीम् ॥ ११॥
उच्चपीनकुचामच्छहारां तुच्छवलग्नकाम् ।
सुकुमारभुजावल्ली वेल्लत्कङ्कणरिङ्खणाम् ॥ १२॥
वामस्तनमुखन्यस्त वीणावादविनोदिनीम् ।
वलिनाभिनभोभूत काञ्ची हारिप्रभां शुभाम् ॥ १३॥
न्यस्तैकचरणां पद्मे सलीलासालसाननाम् ।
अनर्ध्यलावण्यवतीं मादिनीं वर्ण मातृकाम् ॥ १४॥
अनङ्ग शक्तिजीवातु तद्विक्षेप हराङ्गनाम् ।
त्र्यस्रेरतिं प्रीतिमपि प्रणमामि मनोभवाम् ॥ १५॥
द्रावणंरोषणञ्चैव बन्धनं मोहनं तथा ।
अस्त्रमुन्मादनाख्यं च पञ्चमं पातु मे हृदि ॥ १६॥
कामराजं च कन्दर्पं मन्मथं मकरध्वजम् ।
मनोभवं च पञ्चार कोणाग्रावस्थितं स्तुमः ॥ १७॥
ब्राह्मीं माहेश्वरीं चैवकौमारीं वैष्णवीमपि ।
वाराहीमपि माहेन्द्रीं च चामुण्डां चण्डिकां नुमः ॥ १८॥
लक्ष्मीः सरस्वतीचैव रतिः प्रीतिस्तथैव च ।
कीर्तिश्शान्तिच पुष्टिश्चतुष्टिरित्यष्टकं भजे ॥ १९॥
वामाज्येष्ठा च रौद्री च शान्तिः श्रद्धासरस्वती ।
क्रियाशक्तिश्च लक्ष्मीश्च सृष्टिश्चैवतु मोहिनी ॥ २०॥
तथापुर्णादिने चाश्वासिनीवाली तथैव च ।
विद्युन्मालिन्यथसुरा नन्दाद्या नागवद्धिका ॥ २१॥
इतिषोडश शक्तीनां मण्डलं मानयामहे ।
असिताङ्गो रुरुश्चण्ड क्रोधनोन्मत्तभैरवाः ॥ २२॥
कपालीभीषणश्चैव संहारश्चेति पान्त्वमी ।
मातङ्गीं सिद्धलक्ष्मीं च महामातङ्गिकामपि ॥ २३॥
महतीं सिद्धलक्ष्मीं च तुर्यां च तदुपास्महे ।
गणनाथश्च दुर्गा च वटुकः क्षेत्रपोऽवतु ॥ २४॥
शक्तिरूपाणि चाङ्गानि मनसाङ्गी करोम्यहम् ।
हंसमूर्तिः स च परः प्रकाशानन्द देशिकः ॥ २५॥
पूर्णोनित्यश्चवरुणः पातु मां पञ्चदेशिकी ।
शिवेत्वांशेषकादेवि मातङ्गेश्वरि मानये ॥ २६॥
ईक्षे च मानसेमत्के क्षेत्रपालं कृपालयम् ।
शुकिनी शोकनिर्हन्त्री सवीणावेणि भासुरा ॥ २७॥
सुरार्चिता प्रसन्ना च संविद्भवति शाम्भवी ॥ २८॥
मदेनशोणा पदपाङ्गकोणा विभक्तवीणा निगमप्रवीणा ।
एणाङ्क चूडाकरुणाधुरीणा प्रीणातु वः पोषित पुष्पवाणा ॥ २९॥
संविन्मयंरुद्र वसन्नतोषिनः साधकीन्द्र भृङ्गकुलः ।
कमपुष्पाञ्जलि रेषमतां मातङ्गकन्यका याः ॥ ३०॥
॥ इति श्रीमातङ्गीस्तोत्रपुष्पाञ्जलिः समाप्ता ॥

Explore More