मोहिनि मोहप्रमथिनि मन्मथमथनप्रिये नमस्तेऽस्तु ॥ १॥
तदपि तु भक्तिर्मामपि भवर्ती स्तोतुं विलोभयति ॥ २॥
वीणावादविनोदिनि नारदगीते नमो देवि ॥ ३॥
मातङ्गि विद्रुमौष्ठि स्मितमुग्धाक्ष्यम्ब मौक्तिकाभरणे ॥ ४॥
त्वद्भक्तिलब्धविभवो भवति क्षुद्रोऽपि भुवनपतिः ॥ ५॥
पूज्यः सुभगो वाग्मी भवति जडश्चापि सर्वज्ञः ॥ ६॥
निर्वाणरूपिणि शिवे त्रिपुरे शरणं प्रपन्नस्त्वाम् ॥ ७॥
तस्य जगत्त्रितयेऽस्मिन् कास्ताः ननु याः स्त्रियोऽसाध्याः ॥ ८॥
भगवति मातङ्गीश्वरि नमोऽस्तु तुभ्यं महादेवि ॥ ९॥
आराधिते नमस्ते प्रसीद कृपयैव मातङ्गि ॥ १०॥
श्यामलकोमलगार्त्री पाटलनयनां स्मरामि त्वाम् ॥ ११॥
वीणावादनवेलाकम्पितशिरसं नमामि मातङ्गीम् ॥ १२॥
कटाक्षयतु कल्याणी कदम्बवनवासिनी ॥ १३॥
तन्त्रीं तारविराविणीमसकलैरास्फालयन्ती नखैः ।
अर्धोन्मीलदपाङ्गमंसवलितग्रीवं मुखं बिभ्रती
माया काचन मोहिनी विजयते मातङ्गकन्यामयी ॥ १४॥
विम्बोष्ठीं नवयावकार्द्रचरणामाकीर्णकेशालिकां (वलिम्) ।
हृद्याङ्गीं सितशङ्खकुण्डलधरां शृङ्गारवेषोज्ज्वलां
मातङ्गीं प्रणतोऽस्मि सुस्मितमुखीं देवीं शुकश्यामलाम् ॥ १५॥
तालीपत्रपुटान्तरेषु घटितैस्ताटकिनी मौक्तिकैः ।
मूले कल्पतरोर्महामणिमये सिंहासने मोहिनी
काचिद्गायनदेवता विजयते वीणावती वासना ॥ १६॥
क्षोणीपालसुरेन्द्रपन्नगवरैराराधिताङ्घ्रिद्वयाम् ।
एणीचञ्चललोचनां सुवसनां वणीं पुराणोज्ज्वलां
श्रोणीभारभरालसामनिमिषः पश्यामि विश्वेश्वरीम् ॥ १७॥
॥ फलश्रुति ॥
जन्तूनां वितरति कौशलं क्रियासु ।
वाग्मित्वं श्रियमधिकाञ्च गानशक्तिं
सौभाग्यं नृपतिभिरर्चनीयताञ्च ॥ १८॥
